Vṛttaratnākara - shreevatsa/sanskrit GitHub Wiki
The Vṛttaratnākara is a much-quoted work on Sanskrit prosody, written by Kedārabhaṭṭa (in the 15th century?).
Although it isn't the best work, especially on mātrā metres (see remarks by Velankar and by Hahn), its popularity makes it a good starting point.
Sources for the stuff below:
- Sanskrit text
- With Sulhaṇa's commentary: https://groups.google.com/d/msg/sanskrit-programmers/8jhfDaawkWI/Hkx28hPIBRsJ (thanks to Dr. Dhaval Patel)
- With Nārayaṇabhaṭṭa's commentary: https://archive.org/stream/in.ernet.dli.2015.408008/2015.408008.The-Vrttaratnakara#page/n13/mode/2up (Chaukhamba, I'm using a physical version of this) (commentary dated by Velankar to Śaka 1602 ≈ 1680.)
- Another commentary: https://archive.org/stream/VrittaRatnakaraKedaraBhattaSktHindi1942/Vritta%20Ratnakara%20-%20Kedara%20Bhatta%20-%20Skt%20Hindi%201942#page/n7/mode/2up
- With variants etc.: https://www.ancient-buddhist-texts.net/Textual-Studies/Vrttaratnakara/index.htm
- (Partial) English translation: https://books.google.com/books?id=TZNlAAAAcAAJ&pg=PA45 https://books.google.com/books?id=TZNlAAAAcAAJ&pg=PA91 https://books.google.com/books?id=TZNlAAAAcAAJ&pg=PA140
Format below:
- On left, English translation, and any insights from reading commentaries
- On right, any prefatory remarks of the commentator (Sulhaṇa), followed by the verse of Kedārabhaṭṭa, followed by the commentary.
[About the author and work] There lived one Pavvi, an excellent Brāhmaṇa versed in the Vedas and doctrinal works of the followers of Śiva. His son Kedāra, devoted to the worship of the feet of Mahādeva, having, for the happy completion of this work, saluted Sankara, together with Gauri and Ganeśa, the benefactor of this world, to whom both Brahmā and Vishnu pay homage, writes this treatise on metres entitled Vṛttaratnākara, which consists of definitions and illustrations (the definitions written in the measure of the metres defined). |
नमः सरस्वत्यै । सश्रीकं प्रभया युतं रुचिरया प्रोद्भासितं गङ्गया कृष्णात्रेयस्य गोत्रे समजनि पुरा दाक्षिणात्याग्रणीर्यो शास्त्रारंभे शास्त्रकार इष्टाधिकृतदेवतानमस्कारपूर्वकशास्त्रसंबंधप्रयोजनं श्लोकत्रयेणाह । |
सुखसंतानसिद्ध्यर्थं नत्वा ब्रह्माच्युतार्चितम् । वेदार्थशैवशास्त्रज्ञः पव्येकोऽभूद्द्विजोत्तमः । तेनेदं क्रियते छन्दो लक्षलक्षणसंयुतम् । |
|
वेदानामर्था वेदार्थाः । शिवो देवता येषां तानि शैवानि शास्त्राणि । वेदार्थाश्च शैवशास्त्राणि च तानि जानातीति स तथोक्तः य पव्येको नाम द्विजोत्तमोऽभूत्तस्य पव्येकस्य केदारनामा शिवचरणाराधनपरः पुत्रोऽस्ति । तेन केदारेणेदं वक्ष्यमाणलक्षणं छन्दः क्रियते । लक्ष्यमुदाहरणं लक्षणं नियताक्षरमात्रागणरचना ताभ्यां संयुतं लक्षलक्षणसंयुतम् । किं नाम । वृत्तरत्नाकरं नाम । वृत्तानि श्रीप्रभृतीनि तान्येव रत्नानि तेषामाकर उत्पत्तिस्थानम् । किमर्थं । सुखसिद्धये । सुखेन सिद्धिः सुखसिद्धिस्तस्यै सुखसिद्धये । केषाम् । बालानां मन्दबुद्धीनाम् । किंकृत्वा । नत्वा । कम् । शंकरं महादेवम् । कथंभूतम् । लोकशंकरं लोकानां शं सुखं करोतीति लोकशंकरस्तम् । पुनः कथंभूतम् । ब्रह्माच्युतार्चितं विरंचिनारायणपूजितम् । पुनः कथंभूतं । गौरीविनायकोपेतं गौरी च विनायकश्च गौरीविनायकौ ताभ्यां उपेतं संयुतम् । किमर्थम् । सुखसंतानसिद्ध्यर्थम् । सुखं परं ब्रह्मानन्दात्मकं संतानः पुत्रपौत्रादि तयोः सिद्धिः प्राप्तिस्तदर्थं सुखसंतानसिद्ध्यर्थम् । नत्वा प्रणम्येति संबंधः । त्रिभिर्विशेषकम् ॥ १-३ |
|
[mātrā- and varṇa- classification] Those metres will be stated here which by Piṅgala and others have been divided into two classes, viz. according to the quantities and according to (the number of) letters. [Nārāyaṇabhaṭṭa points out other classifications, adopted by others:
For Vedic metres, one may just count syllables (Gāyatrī, Triṣṭubh, etc). But those are excluded here (note “लौकिकं”). |
छन्दःशब्देन किमुच्यते इत्याह । |
पिङ्गलादिभिराचार्यैर्यदुक्तं लौकिकं द्विधा । |
|
तदिदं शास्त्रे छन्दः कथ्यते । यत्पिंगलादिभिराचार्यैः छन्दःशास्त्रप्रयोक्तृभिरुक्तमभिहितम् । लौकिकं लोके भवं न वैदिकं । काव्यादिषु तस्यानुपयोगात् । द्विधा द्विप्रकारम् । कथमित्याशंकायां मात्रावर्णविभेदेनेत्याह । मात्राभेदेन आर्यादि वर्णभेदेन श्रीप्रभृति वृत्तभेदेनेति ॥ ४ |
|
This work, containing six chapters, explains metres clearly. Its size is 136 [ślokas, i.e. the work contains about 136×32 syllables]. |
अथ ग्रन्थसंख्यामाह । |
षडध्यायनिबद्धस्य छन्दसोऽस्य परिस्फुटम् । |
|
अधीयन्त इत्यध्यायास्ते च वक्ष्यमाणलक्षणाः संज्ञाभिधानमात्रावृत्तसमवृत्तार्धसमवृत्तविषमवृत्तषट्प्रत्ययलक्षणाः षडेव षड्भिर्निबद्धस्य छन्दःशास्त्रस्य प्रमाणं संख्या षट्त्रिंशदधिकं शतं विज्ञेयम् ॥ ५ |
|
Entire (poetical) speech (both Prakrit and Sanskrit) is pervaded by the ten letters म (ma), य (ya), र (ra), स (sa), त (ta), ज (ja), भ (bha), न (na), ग (ga) and ल (la), as the three worlds are pervaded by Vishnu. |
अथ गणनामाह ।
म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥ ६ ‘‘गल’ इति प्रथमाक्षरग्रहणमात्रेण गुरुलघुशब्दयोर्ग्रहणमि’त्याम्नायः । एभिर्मयरसतजभनलगैर्दशभिरक्षरैः । समस्तमपि शब्दब्रह्म व्याप्तम् । किमिव । त्रैलोक्यमिव । केन । भवगता नारायणेन । ६ |
That foot of three letters is called म (ma-gana) all of whose letters are long.
That is य (ya-gana) whose first letter is short (and the remaining two letters long). That is र (ra-gana) whose middle letter is short (and the first and last long). That is स (sa-gana) whose last letter is long (and the first two short). That is त (ta-gana) whose last letter is short (and the first two long). That is ज (ja-gana) whose middle letter is long (and the first and last short). That is भ (bha-gana) whose first is long (and the two last short). That is न (na-gana) all of whose three letters are short. These are the feet, (used in Sanskrit metres) eight in number, each consisting of three letters. |
एतेषां प्रत्येकं लक्षणमाह ।
सर्वगुर्मो मुखान्तर्लौ यरावंतगलौ सतौ । ग्मध्याद्यौ ज्भौ त्रिलो नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥ ७ अस्मिन् छन्दःशास्त्रे सर्वे गुरवो यस्यासौ सर्वगुर्मो मगणो यथा (ऽऽऽ) । मुखान्तर्लौ यरौ मुखमादि अंतर्मध्यं आदौ मध्ये लघू ययोस्तौ मुखान्तर्लौ यगणरगणौ (।ऽऽ, ऽ।ऽ) । अंतगलौ सतौ । अंते अवसाने गुरुलघू ययोस्तौ सगणतगणौ यथा (।।ऽ, ऽऽ।) । ग्मध्याद्यौ ज्भौ । गुरु मध्ये आदौ ययोस्तौ जगणभगणौ यथा (।ऽ।, ऽ।।) । त्रिलो नः । त्रिलघुर्नगणो यथा (।।।) । एते मयरसतजभनाऽष्टौ गणा भवन्ति वर्णवृत्तगणा भवन्तीत्यर्थः । मात्रागणानां वक्ष्यमाणसूत्रे विधानात् । चतुर्गुर्वादीनामपि गणादिसंज्ञा मा भूदित्याशंक्य नियमन्नाह । त्रिका इति त्रयः परिमाणं येषां ते त्रिका इति । ७ |
In the Aryā metre and others of that class, five other feet are used, each consisting (not of three letters as mentioned before but) of four Mātrās or syllabic instants.
Each of these (latter) either consists of (two) letters both of which have long vowel sounds (a long vowel sound being equal to two short ones); or of four letters all of which have short vowel sounds; or of three letters whose first has a long sound (and the others are short) ; or whose second has a long sound (and the others are short); or whose last has a long sound (and the preceding ones short). |
अथ मात्रागणानाह ।
ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुःकलाः । गणाश्चतुर्लघूपेताः पंचार्यादिषु संस्थिताः ॥ ८ आर्याप्रभृतिषु मात्रावृत्तेषु चतुःकला पञ्च गणा ज्ञातव्याः । कथम् । सर्वादिमध्यांतगुरवः सर्वे च ते आदिश्च मध्यं च अन्तश्च सर्वादिमध्यांतास्तेषु गुरवो येषां ते सर्वादिमध्यान्तगुरवः । चतुर्भिर्लघुभिरुपेताः सहिता वेदितव्याः । ८ |
A letter with an anusvāra or visarga, a long vowel, or a letter which immediately precedes a compound letter, is long. Also a letter is optionally long at the end of a pāda (the fourth part of a sloka). A long vowel sound is denoted by the letter ग (ga) or a crooked line; and a short sound is denoted by the letter ल (la) or by a perpendicular line. |
गुरुलघुपरिज्ञानार्थमाह ।
सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः । **वा पादान्तस्त्वसौ ग्वक्रो ज्ञेयोऽन्यो मातृको लृजुः ॥ ९ इति । ** सहानुस्वारेण वर्तत इति सानुस्वारः । विसर्गान्तः सविसर्गः । दीर्घो द्विमात्रः । युक्तपरः संयोगपरो यो भवति । चकाराद्व्यंजनांतोऽपि गृह्यते । परिमिताक्षरमात्रो गणारचितो वक्ष्यमाणलक्षणो वृत्तस्य चतुर्थांशः पादस्तस्यान्ते वर्तमानो लघुरपि विभाषया गुरुः स्यात् । स च कविसमयव्यवहारात् द्वितीयचतुर्थयोरेव पादयोरन्ते वेदितव्यः । यथा । प्रायः समासन्नपराभवानां धियो विपर्यस्ततमा भवन्ति । असंभवे हेममयस्य जन्तोस्तथाऽपि रामो लुलुभे मृगाय ॥ इति । तथा च । ‘श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि’ इत्यादि दृष्टव्यम् । स च प्रस्तारे वक्रः स्थाप्य लघुलक्षणमाह । ज्ञेयोऽन्यो मातृको लृजुः । अनुस्वरादिरहितो अन्यो मातृको एकमात्रो वर्णो लघुर्भवति । स च प्रस्तारे ऋजुः सरलः । ९ |
A compound letter in the beginning of a pada is called krama. A long letter preceding a krama is some times considered short. |
युक्तपराश्च य इत्यनेन प्राप्ते गुरुत्वे अपवादमाह ।
पदादाविह वर्णस्य संयोगः क्रमसंज्ञिकः । पुरःस्थितेन तेन स्याल्लघुताऽपि क्वचिद्गुरोः ॥ १० विभक्त्यंतं पदं तस्य पदस्यादौ वर्तमानो यो वर्णस्तस्य संयोगः । स इह शास्त्रे क्रमसंज्ञो ज्ञेयः । तेन क्रमेण पुरोवर्तिना प्राक्पदांते वर्तमानस्य प्राप्तगुरुभावस्यापि लघुता स्यात् । क्वचिल्लक्षानुरोधेन । ननु क एषः क्रमो नाम संयोग उच्यते । पूर्वाचार्याणां पिंगलनागप्रभृतीनां कालिदासादीनां च कवीनां समयः परिगृहीतः । संयोगः क्रमसंयोगः । १० |
तत्र ग्रसंयोगेन यथा । इदमस्योदाहरणम् ।
तरुणं सर्षपशाकं नवौदनं पिच्छलानि च दधीनि ।
अल्पव्ययेन सुंदरि ग्राम्यजनो मिष्टमश्नाति ॥ ११
ह्रसंयोगेन यथा ।
तव ह्रियापह्रिया मम ह्रीरभूत् शशिगृहेऽपि हृतं न धृता ततः ।
वहलभ्रामरमेषकतामसम् मम प्रिये क्व स येष्यति तत्पुनः ॥ इति
निद्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसः
निस्तेजः परिभूयते परिभवान्निर्वेदमागच्छति ।
निर्विण्णः शुचमेति शोकविवशो बुद्ध्याः परिभ्रश्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥
ममैव ते हृते । यथा ।
स्नेहाद्गेहाद्भुजगतनयालोककौतूहलेन स्थूलोत्तुंगस्तनभरलसन्मध्यभंगानपेक्षाः ।
पौरा नार्यस्तरलनयनानन्दमुत्पादयन्त्यो धावन्ति स्म द्रुतमपह्रियः स्रंसमानोत्तरीयाः ॥ इति ।
बोधप्रदीपेऽपि यथा ।
यज्ञैर्येषां प्रतिपदमियं मण्डिता भूतधात्री
निर्जित्यैतद्भुवनवलयं यैः प्रदत्तं द्विजेभ्यः ।
तेऽप्येतस्मिन् गुरुभवहृदे बुद्बुदस्तम्भलीलं
धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः ॥
शिशुपालवधे यथा ।
प्राप्तनाभिहृदमज्जनमाशु प्रस्थितं निवसनग्रहणाय । इति ।
भ्रसंयोगेन यथा ।
शशिमुखि भ्रमरोऽयं पद्मबुद्ध्याऽऽननं ते ।
समभिलषति पातुं त्यक्तवल्लीप्रसूनः ॥
तथा च ।
भ्रमति भ्रमरमारीकानने विप्रमुक्ते । इत्यादि ।
वरतरुकुसुमेषु व्योमगंगाम्बुजेषु त्रिदशकरिकटेषु स्वर्वधूकुंतलेषु ।
स्थितशयितविबुद्धप्रीतिकस्ते भ्रमोऽयं भ्रमसि भ्रमर येन त्वं मुधा केतकेषु ॥
पदादाविति किम् । अन्यत्र मा भूत् ।
ग्रसंयोगेन यथा ।
असमग्रविलोकनेन किं ते दयितं पश्य वरोरु निर्विशंका ।
न हि जातु कुशाग्रपीतमम्भः सुचिरेणापि करोत्यपेततृष्णम् ॥ इति
ह्रसंयोगेन यथा ।
‘आजह्रतुस्तच्चरणौ पृथिव्यामि’ति ।
तथा च ।
प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे ।
भ्रसंयोगेन यथा ।
कुन्दावदातैर्भवतो यशोभिः शुभ्रीकृतं किं परमारवीर ।
अद्यापि यद्बिभ्रति कालिमानमरातिनारीवदनोत्पलानि ॥ इत्यादि ।
क्वचिदिति किम् । सर्वत्र मा भूत् ।
ग्रसंयोगेन यथा ।
‘मही पादघाताद्व्रजति सहसा संशयपदम् ।
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहणमि’ति ॥
भ्रसंयोगेन यथा ।
‘तत्र भ्रमत्येव मुधा षडंध्रिरि’ति ।
केचित्पादादाविति मन्यन्ते । तदसंगतम् । सूत्रोदाहरणयोर्घटनाभावात् ।
तथापि ।
तरुणं सर्षपशाकं नवोदनं पिच्छलानि दधीनि ।
अल्पव्ययेन सुंदरि ग्राम्यजनो मिष्टमश्नाति । इत्युदाहरणमार्यया प्रदर्शितम् । आर्यायां पादव्यवस्था नास्ति । पूर्वार्धोत्तरार्धग्रहणात् पूर्वार्धोत्तरार्धमित्यार्यालक्षणं कुर्वाणो ग्रन्थकार एवं ज्ञापयति । तावदार्यायां पादव्यवस्था नास्ति पैंगलीयसूत्रपाठाच्च । स्वराऽर्धञ्चार्यार्धमिति । तस्मात्पदादाविति पाठः । श्रेयानित्यलमिति प्रसंगेन ॥ ११
अथ संज्ञामाह ।
अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः ।
ज्ञेयः पादः चतुर्थांशो यतिर्विच्छेदसंज्ञिता ॥ १२
तद्यथा । चत्वारोऽब्धिवेदाः । पञ्च शरेन्द्रियाणि । षट्चर्तवः । सप्त स्वरर्षयः । अष्टौ वसवः । नव नंदरन्ध्राणि । दश दिशाः । एकादश रुद्राः । द्वादशादित्याः । त्रयोदश विश्वेदेवाः । चतुर्दश भुवनानि । पञ्चदश तिथय इत्यादि ।
पादलक्षणमाह ।
ज्ञेयो पादः चतुर्थांशो । वक्ष्यमाणलक्षणस्य वृत्तस्य चतुर्थांशो भागः पादसंज्ञो भवेत् ।
अथ यतिमाह ।
यतिर्विच्छेदसंज्ञिता । यतिर्विरामादिराचार्यपारंपर्यागता संज्ञेयमध्यात्पदच्छिन्नाक्षरेषु कर्तव्या । अब्ध्यादि शब्दाद्धि सांकाः कृत्वा यतिरित्यनेन सह संबध्यन्ते । इत्ययमर्थः शिष्यन्ति ।
तत्राहुराचार्याः ।
“यतिः सर्वत्र पादान्ते श्लोकार्धे तु विशेषतः ।
समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ॥
क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत् ।
यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥
पूर्वांतवत्स्वरः संधौ क्वचिदेव परादिवत् ।
दृष्टव्यो यतिचिन्तायां यद्यादेशः परादिवत् ॥
[नित्यं प्राक्पदसंबद्धाश्चादयः प्राक्पदान्तवत् ।
परेण नित्यसंबद्धाः प्रादयश्च परादिवत् ॥] ”
यतिः सर्वत्र पादान्ते ।
यथा ।
श्रियः श्रेयकपोलौ तु सम्पूर्णेन्दुसमप्रभौ
प्रतिबिम्बं हरेर्यत्र कस्तूरी मण्डनायते । इत्यादिनेत्वेवं यथा ।
नमस्तस्मै महादेवाय शशिखण्डधारिणे । इति ।
श्लोकार्धे तु विशेषतः ।
यथा ।
राजसेवां विनाऽस्माकं गुणो निष्फलतामगात् ।
अंतःपुरपुरन्ध्रीणां अनर्घ्यामिव मण्डनम् ॥ इति ।
अगादित्यंत्यव्यञ्जनस्यांतःपुरेणेत्यकारेण सह संधिर्न भवति ।
समासेऽपि न त्वेवं यथा ।
सुरासुरशिरोरत्नस्फुरच्चरणमञ्जरी-
पिंजरीकृतपादाब्जद्वन्द्वं वन्दामहे शिवमिति ।
समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ।
व्यक्तविभक्तिके प्रकटविभक्तिके । अव्यक्तविभक्तिके समासान्तविभक्तिके । तयोरुदाहरणं यथा ।
‘यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु’ इति ।
व्यक्ताव्यक्तविभक्तिक इति यतिः सर्वत्र पादान्त इत्यनेन सह संबध्यते । वस्त्रीकृतजगत्कालं कण्ठेकालं नमाम्यहम् ।
महाकालं कलाशेषं शशिलेखाशिखामणिम् ॥
अपि च ।
नमस्तुंगशिरश्चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरीरंभमूलस्तम्भाय शम्भवे ॥
क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत् ।
यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥
यथा ।
‘पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतराशा’विति ।
समुद्रादाविति किम् । पदमध्ययतिर्पदान्ते मा भूत् । यथा ।
‘प्रणमत भवबंधक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानं दहेतु’रिति ॥
पूर्वोत्तरभागयोरेकाक्षरत्वे तु पदमध्ये यतिर्दुष्यति । यथा ।
‘एतस्या गण्डतलममलं गाहवे चन्द्रकक्षा’मिति ।
‘एतासां राजति सुमनसां दामकण्ठावलम्बी’ति ।
‘संतापं मे जनयति नितम्बोऽयमिन्दीवराक्ष्या’ इति ।
पूर्वान्तवत्स्वरः संधौ क्वचिदेव परादिवत् ।
अस्यार्थः । यो यं पूर्वपरयोरेकदेशः स्वरसंधौ विधीयते स क्वचित्पूर्वान्तवद्भवति क्वचित्परस्यादिवत् ।
पूर्वान्तवद्यथा ।
स्यादस्थानेऽपगतयमुनासंगमे वाऽभिरामा । तथा ।
जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुम् इति ।
परादिवद्भावो यथा । ममैव व्यायोगे ।
ये स्वारातिविदारितास्यसहसैवाभूद्विभिन्नं रणे
वामांगं कलकिंकणीफलकवन्निस्तृंशवद्दक्षिणम् ।
एकं घातनिपातदत्तमितरद्घातप्रतीकारकृद्-
धन्यः पश्यति युध्यमानमिति सस्वांगं विमानस्थितः ॥ इत्यादि ।
यद्यादेशः परादिवद् ।
यथा ।
‘सप्तर्षिहस्तावचितावशेषण्येऽधो विवस्वानि’ति ।
आदिशब्दात् ‘विततघनतुषारः क्षोदशुभ्रांशुवर्त्म स्वविरले’त्यादि ।
नित्यं प्राक्पदसंबद्धाश्चादयः प्राक्पदान्तवत् ।
तेभ्यः पूर्वा यतिर्न कर्तव्येत्यर्थः । यथा ।
‘स्वादुःस्वच्छंदसलिलमिदं प्रीतये कस्य न स्यादि’ति ।
परेण नित्यसंबद्धाः प्रादयश्च परादिवत् ।
तेभ्यः परा यतिर्न कर्तव्येत्यर्थः । यथा ।
‘दुःखं मे प्रक्षिपति हृदये दुःसहस्तद्वियोगः’ इत्यादि सर्वमूह्यम् ॥ १२
युक्समं विषमं चायुक्स्थानं सद्भिर्निगद्यते । १३(१)
प्रथमतृतीयादिकं स्थानं अयुक् विषमं द्वितीयचतुर्थादिकं स्थानं युक्सममिति ।
अथ वृत्तभेदानाह ।
सममर्धसमं वृत्तं विषमं च तथा परम् ॥ १३(२)
छन्दसि वर्तत इति । वृत्तं वक्ष्यमाणलक्षणं त्रिधा भवति । सममर्धसमं विषमं चेति । तत्र समं सर्वावयवत्वात्समम् श्रीप्रभृति अर्धसममुपचित्रादि विषमं पदचतुरूर्धादि ।
एतेषां प्रत्येकं लक्षणमाह ।
अङ्ध्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः ।
तच्छंदशास्त्रतत्त्वज्ञा समं वृत्तं प्रचक्ष्यते ॥ १४
यस्य वृत्तस्य चत्वारोऽपि पादाः समलक्षणभाजो भवन्ति । तद्वृत्तं समं छन्दोविद्भिराचक्ष्यते ।
अथार्धसममाह ।
**प्रथमाङ्ध्रिसमो यस्य तृतीयश्चरणो भवेत् । **
द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते ॥ १५
यस्य वृत्तस्य प्रथमतृतीयपादौ तुल्यलक्षणौ भवतः । द्वितीयचतुर्थौ च । तद्वृत्तं अर्धसममुच्यते ।
विषमलक्षणमाह ।
यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् ।
तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥ १६
यस्य वृत्तस्य चतुर्ष्वपि पादेषु भिन्नमन्यादृशं परस्परं लक्षणं भवति तद्विषममित्याहुराचार्याः ।
अथ वृत्तानां पादं नियमन्नाह ।
आरभ्यैकाक्षरात्पादादेकैकाक्षरवर्धितैः ।
पृथक्छन्दो भवेत्पादैर्यावत्षड्विंशतिं गतम् ॥ १७
एकाक्षरात्पादादेकैकाक्षरवृद्ध्या पादैः छन्दः स्यात् । किं यावद्गतं षट्विंशत्यक्षरमुत्कृतिं यावत् ।
तदूर्ध्वं चण्डवृष्ट्यादि दण्डकाः परिकीर्तिताः । १८(१)
षड्विंशत्याक्षरोत्कृतिजातेरूर्ध्वं चण्डवृष्टिप्रभृतयो दण्डकाः भवन्ति । शेषमिति प्रकरणम् । तच्च शास्त्रान्तरेभ्योऽवगन्तव्यम् । ग्रन्थगौरवभयात्केदारेणात्र नोक्तम् ।
गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥ १८(२)
शेषं जातिप्रकरणानन्तरं त्रिपद्यः षट्पद्यो गाथाः स्युः ।
अथ छन्दसां जातीराह ।
उक्तात्युक्ता तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका ।
गायत्र्युष्णिगनुष्टुप् च बृहती पंक्तिरेव च ॥ १९
त्रिष्टुप् च जगती चैव तथाऽतिजगती मता ।
शर्करी सातिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृतेः ॥ २०
धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ।
विकृतिः सङ्कृतिश्चैव तथाभिकृतिरुत्कृतिः ॥ २१
इत्युक्ता छंदसां संज्ञाः क्रमशो वच्मि साम्प्रतम् ।
लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम् ॥ २२
एकाक्षरा उक्ता । द्व्यक्षरा अत्युक्ता । त्र्यक्षरा मध्या । चतुरक्षरा प्रतिष्ठा । पंचाक्षरा सुप्रतिष्ठा । षडक्षरा गायत्री । सप्ताक्षरा उष्णिक् । अष्टाक्षरा अनुष्टुप् । नवाक्षरा बृहती । दशाक्षरा पंक्तिः । एकादशाक्षरा त्रिष्टुप् । द्वादशाक्षरा जगती । त्रयोदशाक्षराऽतिजगती । चतुर्दशाक्षरा शर्करी । पंचदशाक्षरा अतिशर्करी । षोडशाक्षरा अष्टिः । सप्तदशाक्षरा अत्यष्टिः । अष्टादशाक्षरा धृतिः । एकोनविंशत्यक्षरा अतिधृतिः । विंशत्यक्षरा कृतिः । एकविंशत्यक्षरा प्रकृतिः । द्वाविंशत्यक्षरा आकृतिः । त्रयोविंशत्यक्षरा विकृतिः । चतुर्विंशत्यक्षरा संकृतिः । पंचविंशत्यक्षरा अभिकृतिः । षड्विंशत्यक्षरा उत्कृतिः । इति छंदसां संज्ञा उक्ताः ।
अधुना सर्वेषां वृत्तानां लक्षणमभिधास्यामि । लक्ष्यते ज्ञायते अनेनेति लक्षणम् । परं मात्रावृत्तानुपूर्वकम् । मात्रावृत्तान्यार्याप्रभृतीनि प्रथममुक्त्वेत्यर्थः । १९-२२
इति सुल्हणविरचितायां सुकविहृदयानंदिन्यां वृत्तरत्नाकरछंदोवृत्तौ प्रथमोऽध्यायः ॥
मात्रावृत्ताध्यायो द्वितीयः प्रारभ्यते ।
मात्रावृत्तानुपूर्वकमित्युक्तत्वात् ।
लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ।
षष्ठोऽयं च नलघु वा प्रथमेऽर्धे नियतमार्यायाः ॥ १
षष्ठे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः ।
चरमेऽर्धे पंचमके तस्मादिह भवति षष्ठो लः ॥ २
आर्याया एतल्लक्ष्म लक्षणम् । सप्त चतुष्कला गणा गुरुणा उपेता युक्ता भवन्ति । सामान्येनाभिधाय विशेषमाह । भवति नेह विषमे जः इति । इह आर्यालक्षणे विषमे स्थाने प्रथमतृतीयादौ जो जगणो न भवति । षष्ठश्चायं जगणो भवति । नलघु वा । नगणयुक्तो लघु वा भवति । नियतं निश्चितमार्यायाः । प्रथमेऽर्धे आद्ये दले इति । चरमेऽर्धे द्वितीयेऽर्धे षष्ठो लघुरेवेति **** नियमः । एवमुभयोरप्यर्धयोर्लक्षणमभिधाय पदनियममाह । षष्ठे द्वितीयलादिति । षष्ठे गणे सर्वलघौ द्वितीयाल्लघ्वक्षरादारभ्य पदं भवति । सप्तमश्चेत्सर्वलघुगणो भवति तदा प्रथमाक्षरादारभ्य पदं चरमेऽर्धे पंचमके द्वितीयेऽर्धे पंचमे सर्वलघौ गणे तस्मात्पूर्वोक्तात् । प्रथमाक्षराल्लघ्वक्षरादारभ्य पदनियमो भवति । इति । अत्रार्धग्रहणात्पादव्यवस्था नास्तीति एतच्च प्रथमाध्याय एव पदादाविति सूत्रे प्रपंचितमस्ति ।
क्रमेणोदाहरणं यथा ।
वंदारुदेववृन्दैरहमहमिकया सदैव या वंद्या ।
स्वर्गापवर्गदात्रीं तामार्यां संततं नौमि ॥
इत्युदाहरणं यथा ।
यस्यांगनामुवेद्या कोकिलनादश्च मलयगिरिपवनः ।
एकैकमस्त्रकृत्यं करोति स जयति मनोजन्मा ॥ १-२
त्रिष्वंशकेषु पादो दलयोराद्येषु दृश्यते यस्याः ।
पथ्येति नाम तस्याश्छन्दोविद्भिः समाख्यातम् ॥ ३
यस्या आर्याया आद्येषु त्रिषु गणेषु पादो विरामो भवति । सा पथ्या नाम । यथा ।
उज्झितनेपथ्यालकमुज्झिततिलकांजनं यदेणाक्ष्याः ।
तस्याः स्मरामि विरहप्रारम्भे वदनमपि रम्यम् ॥ ३
संलंघ्य गणत्रयमादिमं सकलयोर्द्वयोर्भवति पादः ।
यस्यास्तं पिंगलनागो विपुलामिति समाख्याति ॥ ४
यस्या आर्याया आद्यगणत्रयमभिलंघ्य द्वयोरप्यर्धयोः पादो विरामो यतिर्भवति । सा विपुला नाम यथा ।
मम खलु न याति नयनयुगमचलनिर्मेषपिश्यतस्तृप्तिम् ।
त्रस्तमृगशिशुदृशस्तन्वंग्या जघनस्थलीं विपुलाम् ॥
सामान्येन विधानमेतदाद्यंतोभयभेदपूर्वकत्वात्त्रिधा भवति ।
तत्रादिविपुला यथा ।
प्रमदानां जयति कटाक्षोऽयं निशि स्फुरत्स्मरशराभः ।
हृदयस्थितानुरागप्रकटनपटुतां दधात्स्वैरं ॥
अन्त्यविपुला यथा ।
प्रीतिं कस्य न जनयति प्रकुर्वती केशबंधनं नारी ।
दर्शितभुजमूलालंकारसुभूतार्द्रनखपंक्तिः ॥
उभयविपुलोदाहरणं पूर्वमेवोदाहृतमिति । ४
उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ यस्याः ।
चपलेति नाम तस्याः प्रकीर्तिता नागराजेन ॥ ५
यस्या आर्याया उभयोरर्धयोर्द्वितीयतुर्यौ द्वितीयचतुर्थौ गुर्वोर्मध्यगौ गमध्यगौ गमध्यगाविति । वदता सूत्रकृता गणनियम उक्तः । तथा हि प्रथमो गणोऽन्तगुरुरेव तृतीयो गणो द्विगुरुरेव पंचमश्चादिगुरुरेवेति निश्चयः । शेषं यथा प्रोक्तम् । सा आर्या चपला नाम यथा ।
चपलाक्षि मौनमुद्रां त्यजेति संभाषिता मया सुतनुः ।
संजातरोमहर्षा बभूवात्युत्सुका तन्वी ॥ ५
आद्यं दलं समस्तं भजेल्लक्ष्म चपलागतं यस्याः ।
शेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ ६
यस्या आर्याया आद्यं दलमर्धं समस्तमपि चपलाया लक्षणं भजेत् । शेषे उत्तरार्धे पूर्वोक्तलक्षणा सा मुखचपला नाम । यथा ।
यस्यात्सिराचितांगी (?) लघुस्तनी पिंगलाक्षियुगला च ।
मुखचपला पुरुषाकृतिरतिदीर्घकृशा परित्याज्या ॥ ६
प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे तु चपलायाः ।
**लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥ ७ **
या आर्या प्रथमेऽर्धे प्राक्प्रतिपादितं पूर्वमुक्तं लक्षणमाश्रयेत् प्रथमेतरे तु उत्तरार्धे तु चपलाया लक्षणं सा जघनचपला उक्ता विशुद्धधीभिर्निर्मलबुद्धिभिः । यथा । कुंचितलोचनयुगलं समदनमदमोदसुंदरालम् ।
सुरतं स्मरामि तस्या मृगीदृशोः जघनचपलायाः ॥ ७
॥ आर्याप्रकरणम् ॥
आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः कृतयतिशोभां तां गीतिं गीतिवान्भुजङ्गेशः ॥ ८
आर्यायाः प्रथमेऽर्धे यदुक्तं लक्षणं तद्यदि द्वयोरप्यर्धयोर्भवति तां गीतिमिति गीतवान् उक्तवान् भुजंगेशः पिंगलनागः । यथा ।
रोमांचं जनयंती सुखयंती नेत्रयोर्युगं यूनाम् ।
सद्यो मनांसि मदयति गीतिः स्त्रीणां मदेन मत्तानाम् ॥ ८
**आर्याद्वितीयकेंऽशे यद्गदितं लक्षणं तत्स्यात् । **
**यद्युभयोरपि दलयोरुपगीतिं तां मुनिर्ब्रूते ॥ ९ **
आर्याद्वितीयेऽर्धे यल्लक्षणमुक्तं तद्यदि द्वयोरप्यर्धयोर्भवति तामुपगीतिमिति पिंगलनागो मुनिर्ब्रूते । यथा ।
शारदचंद्रोद्योते पायंपायं मधु स्वैरम् ।
पौरस्त्रीभिरभीष्टा क्रियते सोत्कण्ठमुपगीतिः ॥ ९
आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः ।
सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता ॥ १०
यस्या आर्याया उत्तरार्धलक्षणं पूर्वार्धे भवति पूर्वार्धलक्षणमुत्तरार्धे सा उद्गीतिः ।
यथा ।
मण्डपनगरवधूनामुद्गीतिं वत्समल्लारम् ।
आकर्णयति स नूनं दूरादाभ्येति चन्द्रहरिणोऽपि ॥ १०
आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् ।
इतरत्तद्वन्निखिलं यद्दीयमुदितैवमार्यागीतिः ॥ ११
यद्यार्यायाः पूर्वार्धमुत्तरार्धं च निधनेऽवसाने एकेन गुरुणाधिकेन युक्तं भवति तदाऽऽर्यागीतिर्यथा ।
स्त्रीणां हर्षवतीनां सशिरःकम्पस्तुवन्ति (?) विगतविकल्पाः ।
अप्यार्यागीतिमिमामनेकलयसुन्दरामाकर्ण्य ॥
स्कन्धकमित्यिके । ११
॥ गीतिप्रकरणम् ॥
षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ।
न समाऽत्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥ १२
सिंहावलोकितन्यायेन ‘तृतीययुग्दक्षिणान्तिके’त्यादिसूत्रपठितः पादशब्दोऽत्र दृष्टव्यः । पैंगलीयसूत्रपादशब्दोपादानात् । यथा ‘वैतालीयं द्विःस्वराऽयुक्पादेषु सर्वोऽन्तला’ इति । यत्र विषमे पादे प्रथमे तृतीये षट्कला मात्रा भवन्ति समे पादे द्वितीये चतुर्थे अष्टौ कला भवन्ति । अन्तेऽवसाने रगणलघू गुरुः च भवतस्तद्वृत्तं वैतालीयं नाम । उत्सर्गेण यथा । क्वचित्प्राये गुरुलघुभावेऽपवादमाह । न समाऽत्र पराश्रिता कलेति । समा द्वितीयचतुर्थादिका पराश्रिता तृतीयपंचमाद्याश्रिता न भवति । समे पादे द्वितीये चतुर्थे निर्गतमंतरं व्यवधानं यासां ता निरन्तरा अंतररहिता लघवो न भवेयुरित्यर्थः । यथा ।
प्रविशत्यनिशं निरर्गला सुपरित्यक्तविभूषणांशुका ।
विरहे तव सा वरांगना वैतालीयमुवाह विभ्रमम् ॥ १२
**पर्यन्ते र्यौ तथैव शेषं औपच्छंदसिकं सुधीभिरुक्तम् । १३ **
षण्णामष्टानां च कलानां पर्यन्तेऽवसाने र्यौ रगणयगणौ भवतः । शेषं पूर्ववत्तदा वैतालीयमेव औपच्छंदसिकं नाम । यथा ।
बहुविप्रियकारकं परोक्षे प्रत्यक्षे प्रियचाटुकारदक्षम् ।
शठवृत्तमिमं द्रुतं वयस्ये औपच्छंदसिकं विमुञ्च कान्तम् ॥ १३
आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् । १४
‘यदा षड्विषमेऽष्टौ समे कला’ इत्यादि सर्वं पूर्ववद्भवति । विशेषोक्तौ भगणात्परौ गौ गुरू भवतः तदा वैतालीयमेवापातलिका नाम । यथा ।
नरनाथ भवंतमरीणां नाशकरं प्रसमीक्ष्य पुरस्तात् ।
रिपवो जहति स्म भयार्ता आपातलिकां संगरभूमिम् ॥
आपातलिकां अस्थिरामित्यर्थः ।
उक्तं च पिंगलवृत्तौ भट्टश्रीहलायुधेन । यथा ।
पिंगलकेशा कपिलाक्षी वाचाटा विकटोन्नतदन्ती ।
आपातलिका पुनरेषा नृपतिकुलेऽपि न भाग्यमुपैति ॥ १४
**तृतीययुग्दक्षिणांतिका समस्तपादेषु द्वितीयलः । १५ **
वैतालीयमेव सर्वेष्वपि पादेषु द्वितीयो लघु तृतीयेन सह युक्तो भवति ‘न समाऽत्र पराश्रिता कले’ति बाधित्वा तदा दक्षिणान्तिका नाम । यथा ।
ववौ मरुद्दक्षिणान्तिको वियोगिनीनां प्राणहारकः ।
प्रकंपिताशोकचम्पके वसन्त एषोऽनंगबोधकः ॥ १५
**उदीच्यवृत्तिर्द्वितीयलः सक्तोऽग्र्येण भवेदयुग्मयोः । १६ **
अयुग्मयोः प्रथमतृतीययोः पादयोः द्वितीयो लघुरग्रिमेन तृतीयेन लघुना सह युज्यते तदा वैतालीयमेवोदीच्यवृत्तिर्नाम यथा ।
गिरं मनोज्ञां पिकांगना मुदिताश्चिक्यत्स्वयमुद्गिरत्यसौ ।
उदीच्यवृत्तौ दिवाकरे सहकारोऽपि तनोति मञ्जरी ॥ १६
पूर्वेण युतोऽथ पंचमः प्राच्यवृत्तिरुदितेति युग्मयोः । १७
लघुरित्यनुवर्तते । समपादयोर्द्वितीयचतुर्थयोः पंचमो लघुः पूर्वेण चतुर्थेन लघुना सह युक्तो यदा स्यात्तदा प्राच्यवृत्तिर्नाम वैतालीयं भवति । यथा ।
स्वगुणैरनुरंजितप्रजः प्राच्यवृत्तपरिपालने रतः ।
रणभूमिषु भीमविक्रमो विंध्यवर्मनृपतिर्जयत्यसौ ॥ १७
**यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम् । १८ **
पूर्वोक्तयोरुदीच्यप्राच्यवृत्त्योः समौ सदृशौ ओजयुग्मकौ विषमसमौ पादौ यदा भवतः तदा वैतालीयमेव प्रवृत्तकं स्यात् । यथा ।
प्रवृत्तकान्ते दुःरश्मिभिर्व्याप्तमंबरमिदं विलोक्यताम् ।
गृहाण ताम्बूलमुत्तमं कोपमाशु विजहीहि कोपने ॥ १८
अस्य युग्मरचिताऽपरान्तिका । १९
अस्य प्रवृत्तकस्य समपादकृता समपादलक्षणयुक्तैश्चतुर्भिः पादै रचिता अपरान्तिका नाम । यथा ।
तुंगपीवरघनस्तनालसा चारुकुण्डलवती मृगेक्षणा ।
पूर्वचन्द्रवदनाऽपरान्तिका चित्तमुन्मदयतीयमंगना ॥ १९
अयुग्भवा चारुहासिनी । २०
प्रवृत्तकस्यैव विषमपादलक्षणयुक्तैश्चतुर्भिः पादैः रचिता चारुहासिनी नाम यथा ।
न कस्य चेतः समन्मथं करोति सा सुंदराकृतिः ।
विचित्रवाक्योक्तिपण्डिता विलासिनी चारुहासिनी ॥ २०
॥ वैतालीयप्रकरणम् ॥
**वक्त्रं नाद्यान्नसौ स्यातामब्धेर्यो अनुष्टुभि ख्यातम् । २१ **
‘पाद’ इत्यनुवर्तते । अनुष्टुभ्यष्टाक्षरायां जातौ पादस्य चतुर्थादक्षराद्यो यगणो यदा भवति तदा वक्त्रं नाम वृत्तं ख्यातं कथितम् । अब्धेरिति निर्विशेषणत्वेनाद्यादक्षरान्नगणसगणौ न भवतः । यथा ।
अपाण्डुगण्डमाकर्णविशालनयनं सुभ्रु ।
विरहे चारुसर्वांग्यास्तस्याः स्मराम्यहं वक्त्रम् ॥ २१
**युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम् । २२ **
युजोः समपादयोर्चतुर्थादक्षराज्जेन जगणेन परेण वक्त्रमेव पथ्येति कीर्तितम् । यथा ।
त्वद्दन्तिदन्तलग्नोरुशाखाः पथ्यायताः द्रुमाः ।
कथयन्तीव भग्नानां दिग्जयं तव भूपते ॥ २२
ओजयोर्जेन वारिधेस्तदेव विपरीतादि । २३
विपरितपथ्येत्यर्थः । युक्पादे यगण एव कर्तव्यः । यथा ।
विपरीतान्यपि प्रियः कुर्वाणो मुदमाधत्ते ।
अनुकूलस्त्वसौ सदा तेन प्राणाधिको नूनम् ॥ २३
चपलावक्त्रमयुजोर्नकारश्चेत्पयोराशेः । २४
यद्ययुजोर्विषमयोः पादयोश्चतुर्थादक्षरान्नगणो भवेत् तदा वक्त्रमेव चपला भवति । युक्पादयोर्यगण एव । यथा ।
चपलापांगनयने पक्वबिम्बोष्ठि चन्द्रास्ये ।
स्वाधीनत्वं भज दयितं तारुण्यमस्थिरं यस्मात् ॥ २४
यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता । २५
युक्पादे द्वितीयचतुर्थे लघुः सप्तमो यस्याः सा युग्मविपुला नाम । ननु पथ्यालक्षणसाम्यात्पुनरुक्तमेतत् । नैवम् । विपुलाधिकारस्येदानीमारभ्यमानत्वात् विनाऽनुत्पत्तिः पथ्यालक्षणं त्वयुक्पादे अवश्यमेव यगणेन भवितव्यम् । अत्र तु न नियमः । यथा ।
अहो कस्यापि धन्यस्य महाकुलप्रसूतया ।
प्रीतिः स्वकान्तया सार्धं विपुला जायते गृहे ॥ २५
सैतवस्याखिलेष्वपि । २६
सैतवस्याचार्यस्य मतेन चतुर्ष्वपि पादेषु सप्तमो लघुः कर्तव्यः । यथा ।
अहो धन्यस्य कस्यचित्सुकवेर्जायते मतिः ।
नूनं ययाधिक्रियते सैतवं काव्यमुत्तमम् ॥ २६
भेनाब्धितो भाद्विपुला । २७
सैतवस्येति निवृत्तम् । ‘चपलावक्त्रमयुजोर्नकारश्चेत्पयोराशे’रित्यनुवर्तते । ‘यस्यां लः सप्तमो युग्मे सा युग्मविपुला मते’ति सर्वमनुवर्तनीयम् । अयुक्पादयोः प्रथमतृतीययोश्चतुर्थ्यादक्षरात्परयो यगणं बाधित्वा भगणश्चेद्भवति तदा भेनोपलक्षिता विपुला स्यात् भविपुलेत्यर्थः । यथा ।
विशालाक्षी कामगजकुम्भाम्भविपुलस्तनी ।
मध्यक्षामा हंसगतिः कस्य न स्याद्गतिप्रदा ॥
अयुजोरिति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम् व्यक्तिपक्षे पुनरेकस्य । एकपक्षे पुनः प्रथमस्य तृतीयस्य वा तथा चाहुर्महाकवयः ।
‘वटे वटे वैश्रवणश्चत्वरे चत्वरे शिव’ इति ।
‘यस्य प्रभाद्भुवनं शाश्वते पथि तिष्ठती’ति ।
‘उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता’ इति महाकविप्रयोगाः । २७
इत्थमन्या रश्चतुर्थात् । २८
इत्थं पूर्वोक्तप्रकारेणायुक्पादयोश्चतुर्थादक्षरात्परतो रगणो भवति तदा रविपुला स्यात् । यथा ।
तथा जितः शत्रुवर्गो राजन् बाहुबलेन ते ।
सहान्तःपुरो यथाऽसौ ततार विपुला नदी ॥
व्यक्तिपक्षे प्रथमपादे यथा ।
[महाकविकालिदासवस्वाग्देवतागुरुम् ।
यज्ञाने विषयाभ्यान्ति दर्पणे प्रतिबिम्बवत् ।]
तृतीयपादे यथा ।
कामिनीभिः सह प्रीतिः कस्य नाम न रोचते ।
यदि न स्याद्वारिवीचिचंचलं हत जीवितम् ॥ इति । २८
**नोऽम्बुधेश्चेन्नविपुला । २९ **
अयुक्पादयोश्चतुर्थादक्षराच्चेन्नगणो भवतीति तदा नविपुला स्यात् ।
लीलया येन विपुला दंष्ट्राग्रेणोद्धृता मही ।
बिभ्रता सौकरमपि वपुर्वन्दामि तं हरिम् ॥
अत्रैव भारविकविर्यथा ।
युयुत्सुनेव कवचं किमामुक्तमिदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ॥
व्यक्तिपक्षे प्रथमपादे यथा ।
तव मंत्रकृतो मंत्रैर्दूरात्संशमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ इत्यादि ॥ २९
**तोऽम्बुधेस्तत्पूर्वा भवेत् । ३० **
अयुक्पादयोः चतुर्थादक्षराच्चेत्तगणो भवति तदा तत्पूर्वं तविपुलेत्यर्थः । यथा ।
तृष्णेयं रे तात श्रियं संचितां विपुलां हरे –
द्विहाय तस्मात्तां भव सुखी वैराग्यसम्पदा ॥
व्यक्तिपक्षे प्रथमपादे यथा ।
लोकवत्प्रतिपत्तव्यो लौकिकोऽर्थः परीक्षकैः ।
लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥
अन्येति ग्रहणात् मगणसगणविपुलाऽपि बोद्धव्या । यथा ममैव छन्दसि ।
‘अम्बुधौ नतभरमसा ओजे तद्युतविपुला भवेत्’ । यथा ।
सर्वातिरिक्तं सौभाग्यं बिभ्रती चारुलोचना ।
स्त्रीलोकसृष्टिः सौम्येव निः साम्यमस्य वेधसा ॥ (?)
व्यक्तिपक्षे प्रथमपादे यथा ।
मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ॥ इति ।
तृतीयपादे यथा ।
अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यदिति ॥
सविपुला यथा ।
क्षणविध्वंसिनि काये का चिन्ता मरणे रणे । इति ।
सर्वेषां विपुलाभेदानां चतुर्थो वर्णः प्रायेण गुरुर्भवति । इत्याम्नायः ॥ ३०
॥ इति वक्त्रप्रकरणम् ॥
द्विकगुणितवसुलघुरचलधृतिरिति । ३१
द्वाभ्यां गुणिता वसवो अष्टौ लघव इत्यर्थः । षोडशभिर्लघुभिरचलधृतिर्नाम । यथा ।
इतरजनहितमितरमृतरमतिमनवरतमवनितिलकमिव सपदि ।
स्वयमपि जलनिधिजननिरतिलषति पुरुषवरमचलधृतिविभविनमिह ॥
गीत्यार्येति पिंगलः । ३१
मात्रासमकं नवमो ल्गन्तं । ३२
‘द्विकगुणितवसुलघु’रित्यनुवर्तते । यदा अचलधृतिरेव गुर्वन्तो भवति नवमोश्च लघुरेव तदा मात्रासमकं नाम ।
प्राक्सूत्राल्लघुरित्यनुवर्तमानेऽपि ‘नवमो लि’ति वदता सूत्रकारेणान्येषां लघु वोऽनुज्ञातस्तस्मा’न्न समाऽत्र पराश्रिता कले’त्यप्यनुवर्तनीयम् । अत्रैव सूत्रे लक्ष्यलक्षणत्वात् । यथा ।
धूलीधूसंस्कृततनशोभः प्रकटितनूतनवदनद्वंद्वः ।
प्रमुदितवदनो जटिलशिरस्कः खेलति मात्रासमकं बालः ॥ ३२
जो न्लावथाम्बुधेर्विश्लोकः । ३३
अम्बुधेर्लघुचतुष्टयात्परयोर्जगणो न्लौ नगणलघू यदा भवतस्तदा मात्रासमकमेव विश्लोको नाम । यथा ।
मुञ्चति तृणमिव गतविकल्पः पुत्रं प्रियमविश्लोकं यतः ।
संग्रामभुवि विजितारिसमूहः क्षोणीमिमां स साक्षदव्यात् (?) ॥ ३३
तद्युगलाद्वानवासिका स्यात् । ३४
तद्युगलादम्बुधियुगलाल्लघ्वष्टकात्परयो जगणो नगणलघू यदा भवतस्तदा वानवासिका भवेत् । यथा ।
कुंकुमपंकानुलिप्तगात्रा मध्यक्षामा विपुलनितम्बा ।
अस्माकं वानवासिका स्त्री चेतःप्रीतिं सपदि विधत्ते ॥ ३४
बाणाष्टनवसु यदि लश्चित्रा । ३५
पंचमोऽष्टमो नवमो यदि चेल्लघुर्भवति तदा चित्रा नाम यथा ।
दृष्ट्वा तव रिपुनगरे शून्ये चित्रानि धवलगृहभित्तीनाम् ।
यान्ति द्रुततरमिभयूथातित्रासम् नरवरजनता बुद्ध्या ॥ ३५
अष्टाभ्योऽथ गलावुपचित्रा । ३६
लघ्वष्टकाद्यदा गुरुलघू भवतस्तदा उपचित्रा नाम । यथा ।
मानं मानिनि मुञ्च भज त्वं कान्तं यावदितीरितमाल्या ।
तावद्व्योम बभूव पुरस्तान्नक्षत्रैरुपचित्रितमेतत् ॥ ३६
यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमकादिपादैः कलितम् ।
अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु पादाकुलकम् ॥ ३७
अतीतं प्रागुक्तं कृतं लक्ष्म लक्षणं येन तेन युतैः सहितैः मात्रासमकविश्लोकवानवासिकाचित्रोपचित्राणां पादैश्चरणैः कलितं युक्तं अनियतवृत्तपरिमाणसहितं अनियतममर्यादं वृत्तानां परिमाणं तेन सहितम् । कोऽर्थः । मात्रासमकादीनां पञ्चानामपि पादैर्यैः कैश्चिदपि चतुर्भिः पादाकुलकमिति कथितम् ।
अत्र मात्रासमकविश्लोकवानवासिकाचित्रोपचित्राणामुदाहरणम् । यथा ।
दक्षिणमारुतचलिताशोके कोकिलकलरवमुदितालोके ।
मुग्धे मन्मथसुहृदवसन्ते पादाकुलकं याति पतिस्ते ॥
तथा विश्लोकोपचित्रादिपादैर्यथा ।
वाताहतदलपङ्कजनेत्रे असितदुकूलाच्छादितगात्रे ।
कथय सखि त्वं क्व नु मे व्यक्तं पादाकुलकं गच्छसि नक्तम् ॥
एवमन्येऽपि महाकविप्रयोगा यथा ।
चत्वरमण्डपतरुमूलानि संचितसलिलान्यवकूलानि ।
क्वचिदपि न भवति भिक्षाहानिः तत्किं क्रियते मानम्लानिः ॥
अन्ते यमक इत्याम्नायः । ३७
अधुना गुरुलघुप्रमाणमाह ।
वृत्तस्य लो विना वर्णैर्गा वर्णा गुरुभिस्तथा ।
गुरवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ ३८
यस्य कस्यचिद्वृत्तस्य लः कला मात्रा वर्णैरक्षरैर्विना गुरवो भवन्ति । वर्णा गुरुभिस्तथा ताः कला गुरुभिर्विना वर्णा न भवन्ति । गुरवो र्लैर्दलै नित्यं ता एव कला लैर्लघुभिर्विना दलेऽर्धे कृते सति गुरवो भवन्ति । यथा । अस्मिन्नेव वृत्ते एकपंचाशत्कलावर्णैः द्वात्रिंशद्भिर्विना एकोनविंशतिगुरवोः भवन्ति । पुनस्ता एव मात्रा एकोनविंशत्या गुरुभिर्विना द्वात्रिंशद्भवन्ति । पुनस्ता कला एकपंचाशत्त्रयोदशभिर्लघुभिर्विना अष्टत्रिंशद्भवन्ति । ततो दलेऽर्धे कृते सति एकोनविंशतिर्गुरवो भवन्तीति प्रमाणं नियतं वृत्तस्येति । ३८
शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् ।
सगुरुशकलयुगलकमपि सुपरिघटितललितपदनिचिति भवति शिखा ॥ ३९
शिखिभिस्त्रिभिर्गुणितैर्दशभिर्लघुभी रचितं कृतं तच्च तदपगतलघुयुगलं च तथोक्तं अष्टाविंशल्लघुकमित्यर्थः । अपरं द्वितीयमिदमर्धमखिलं संपूर्णं त्रिंशल्लघुकमित्यर्थः । शकलयुगलकमपि अर्धद्वयममपि सगुरु सह गुरुणा वर्ततेति सगुरु यदा भवति तदा शिखा नाम भवति । सुपरिघटितानि ललितपदानि तेषां निचिती रचनाविशेषा यत्र क्रियाविशेषणे तत्तथोक्तम् । यथा ।
मलयपवनचलितसुविकचविचिकलमलिरधिवसति मुदितमनाः ।
शुभितसमयमुदितपिकयुवतिरपि परिमलबहुलबकुलतरुशिखा ॥
चूलिकेति वक्तव्ये । छंदोभंगभयाच्छिखेत्युक्तमेकार्थत्वान्न दोषः । ३९
विनिमयविहितशकलयुगललघुललितपदविततिरचितगणनिचया ।
श्रुतिसुखकृदियमपि जगति जशिर उपगतवति ञि सति भवति खजा ॥ ४०
सैव शिखा विनिमयेन व्यत्यासेन विहितं शकलयुगलमर्धद्वयं ललितपदवितत्या रचितगणनिचया यदा भवति तदा खजा नाम । क्व सति । ञि सति । ञि चवर्गीयपंचमस्य चवर्गीयतृतीयस्य शिर उर्ध्वविभागस्तस्मिन्नुपगतवति । कोऽर्थः । खञ्जेत्यर्थः । यथा ।
ससलिलसलिलधरवसुमुदितशिखिकुलविरचितकलकलनिकरे ।
सुपरिहृतनिजयुवतिगृहनभसि हत पथिक कथमसि गमा ॥
एकगुरूणि छंदसि खञ्जाशब्दस्य प्रवेशयितुमशक्यत्वान्नाम नोक्तम् । ४१
अष्टावर्धे गा द्व्यभ्यस्ता यस्याः साऽनङ्गक्रीडोक्ता ।
**दलमपपरमपि वसुगुणितसलिलनिधिलघुकविरचितपदवितति भवति । ४१ **
द्वाभ्यां गुणिताऽष्टौ गुरवो यस्याः सा षोडशगुरुः प्रथमेऽर्धे त्वपरमप्यर्धं वसुभिरष्टभिर्गुणिताः सलिलनिधिलघव इति द्वात्रिंशत्संख्या लैः रचितपदविततिः अनंगक्रीडा नाम ।
त्यक्तानङ्गक्रीडां मुक्तव्रीडां शत्रुक्षौणीपालाः ।
सुविषमवनभुवि विदधति भयमिव नरवरतिलकसुविजितरिपुनिवहाऽसौ ॥
सौम्येत्येके । ४१
त्रिगुणनवलघुरवसितिगुरुरिति दलयुगलकृततनुरतिरुचिरा । ४२
त्रिभिर्गुणितार्नव लघवो यस्यां सा तथोक्ता सप्ताविंशल्लघुरित्यर्थः । अवसितिरवसानं तस्मिन् गुरुर्यस्याः सा तथोक्ता इति पूर्वोक्तप्रकारेण सप्तविंशल्लघवोऽन्ते गुरुः एवं दलयुगलकृततनुः विरचितशरीरा अतिरुचिरा नाम । यथा ।
समदगजगतिरुरुकुचयुगकृतनततनुरमलवदनकमला ।
अनवरतमपहरति मम हृदयमिह हि युवतिरियमतिरुचिरा ॥ ४२
॥ इति मात्रासमकप्रकरणम् ॥
इति सुल्हणविरचितायां सुकविहदयानन्दिन्याभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ मात्रावृत्ताध्यायो द्वितीयः समाप्तः ॥
उक्तायाम्
श्रीः । १
एकाक्षरायां जातौ एको गुरुर्यस्य वृत्तस्य पादे तद्वृत्तं श्रीर्नाम । यथा ।
श्रीस्तत्तैलम् । १
अत्युक्तायाम्
गौ स्त्री । २
गुरुद्वयं यत्र तद्वृत्तं स्त्री नाम । यथा ।
आद्या सा स्त्री गौरी पायात् । २
मध्यायाम्
मो नारी । ३
यत्र मगणस्तद्वृत्तं नारी नाम ।
श्रीनारीगोविंदौ भूयास्तवोद्बुद्ध्यै । ३
**रो मृगी । ४ **
यत्र रगणस्तद्वृत्तं मृगी नाम । यथा ।
कथ्यतां यात्यसौ
गीतगा हा मृगी ॥ ४
प्रतिष्ठायाम्
म्गौ चेत्कन्या । ५
चेद्यदि पादे मगणगुरू भवतः तद्वृत्तं कन्या नाम । यथा ।
कामक्रीडारूढायासा ।
एताः कन्या कीदृश्यास्ताः ॥
तथा च ।
सर्वेषां यः सामान्यर्द्धिः ।
तस्येशस्स्ताद्भूयो वृद्ध्यै ॥ ५
सुप्रतिष्ठायाम्
भ्गौ गिति पंक्तिः । ६
यत्र भगणो द्वौ गुरू भवतः तद्वृत्तं पंक्तिर्नाम भवति । यथा ।
व्योमनि नीलां नीरदपंक्तिम् ।
वीक्ष्य विपन्नाः प्रोषितवध्वः ॥ ६
गायत्र्याम्
त्यौ स्तस्तनुमध्या । ७
यत्र तगणयगणौ भवतः तद्वृत्तं तनुमध्या नाम । यथा ।
कस्यापि महद्भिः पुण्यैरनुकूला ।
श्यामा तनुमध्या गेहे भवति स्त्री ॥ ७
शशिवदना न्यौ । ८
यत्र नगणयगणौ भवतस्तद्वृत्तं शशिवदना नाम । यथा ।
मलयजलेपः कुवलयशय्या ।
दहति वियोगे शशिवदनायाः ॥ ८
त्सौ चेद्वसुमती । ९
चेत्तगणसगणौ पादे भवतः तद्वृत्तं वसुमती नाम । यथा ।
पृथ्वी धृतवती राज्ञा नयवता ।
मुद्यज्जनपदा श्लाघ्या वसुमती ॥ ९
उष्णिहि
मधुमतिननगाः । १०
नगणनगणगुरवो यत्र तद्वृत्तं मधुमती नाम । यथा । १०
म्सौ गः स्यान्मदलेखा । ११
मगणसगणौ गुरुश्च यत्र तद्वृत्तं मदनलेखा नाम । यथा ।
लावण्याम्भसि मग्ने तस्याः काममहेभे ।
भ्रष्टेयं स्तनकुम्भाद्रोमलीमदलेखा ॥ ११
कुमारललिता ज्सौग् । १२
जगणसगणौ गुरुश्च यत्र तद्वृत्तं कुमारललिता नाम । यथा ।
कुमारललितानि प्रमोदजननानि ।
नयाभिमुदमग्र्यां विलोक्य नमनीका ॥ (?) १२
सरगा हंसमाला । १३
यत्र सगणरगणगुरवस्तद्वृत्तं हंसमाला नाम । यथा ।
शरदि प्रेक्ष्य यान्तीं मुदितां हंसमालाम् ।
त्यजति प्रेयसीं कः सुखलिप्सुः स्वतन्त्रः ॥ १३
अनुष्टुभि
मो मो गो गो विद्युन्माला । १४
द्वौ मगणौ द्वौ गुरू च यत्र तद्वृत्तं विद्युन्माला नाम । यथा ।
चतुर्भिर्यतिः । यथा ममैव छंदसि ।
मौ गौ वेदैर्विद्युन्माला ।
व्योम्नि व्याप्ते तप्तरेखानाकुर्वन्ती वंग्यांमानम्रां त्वां भर्तुः स्त्रीणां जागर्यका विद्युन्माला ॥ (??) १४
भौ गिति चित्रपदा गः । १५
भगणद्वयं गुरू च यत्र तद्वृत्तं चित्रपदा नाम । यथा ।
नूपुरशब्दमनोज्ञं ताललयान्वितगीतम् ।
पीनपयोधरयुग्मा नृत्यति विचित्रपदेयम् ॥ १५
माणवकं भात्तलगाः । १६
भगणतगणलघुगुरवो यत्र तद्वृत्तं माणवकं नाम । यथा ।
वाञ्छसि शं चेद्विपुलं तर्हि सखे मुञ्च शठ –
मेधा किं ज्ञास्य रुचिं मित्रमपि त्वचपलम् ॥ (?)
चतुर्भिर्यतिरित्याम्नायः । माणवकाक्रीडितमिति पिंगलः । १६
म्नौ गौ हंसरुतमेतत् । १७
यत्र मगणनगणौ द्वौ गुरू तद्वृत्तं हंसरुतं नाम । यथा ।
दृष्ट्वा कासकुसुमानि श्रुत्वा हंसरुतमेतत् ।
कामार्तः शरदि पान्थ कष्टं जीवति निकृष्टः ॥ १७
र्जौ समानिका गलौ च । १८
रगणजगणौ गुरुलघू च यत्र तद्वृत्तं समानिका नाम । यथा ।
ते समानिका च यान्ति शत्रवो भयेन धीर ।
राजसंपदं विहाय यद्यजेयबाहवोऽपि ॥ १८
प्रमाणिका जरौ लगौ । १९
जगणरगणौ लघुगुरू यत्र तद्वृत्तं प्रमाणिका नाम । यथा ।
प्रवाति दक्षिणानिलः सुपुष्पिताम्रकिंशुकः ।
वसंत एष सांप्रतं प्रमाणिकाऽत्र कोकिला ॥ १९
[चम्पकमाला चेद्भमसा गः । २०
भगणमगणसगणाः गुरुश्च यत्र तद्वृत्तं चंपकमाला नाम ।**] **२०
[ नाराचकं तरौ लगौ । २१
तगणरगणौ लघुगुरू च यत्र तद्वृत्तं नाराचकं नाम । यथा । **] **२१
वितानमाभ्यां यदन्यत् । २२
आभ्यां समानिकाप्रमाणिकाभ्यां यदन्यदष्टाक्षरं छन्दस्तद्वितानं नाम । आभ्यां यदन्यदिति ब्रुवन् सूत्रकारो वितानस्यानेकप्रकारत्वं दर्शयति । अन्यथा गणनियमं ब्रूयात् । यथा ।
ज्योत्स्नावितानमैन्दवं पश्य प्रिये मनोरमम् ।
कोपं त्यज प्रियं भज स्त्रीणां प्रियं हि यौवनम् ॥
अन्यच्च ।
तस्याः स्मरामि सुंदरं चन्द्रोपमानमाननम् ।
कंदर्पचापभंगुरं श्रुतिभ्रमोपशोभितमिति ॥
अपि च ।
कंकालमालधारणं कंदर्पदर्पहारिणम् ।
संसारबन्धमोचनं वंदामहे त्रिलोचनम् ॥
‘अन्यदतो हि वितानमि’ति श्वेतपटजयदेवेन यदुक्तम् ।
इत्यनेन गतार्थत्वात् । २२
बृहत्याम्
**रान्नसाविह हलमुखी । २३ **
यत्र रगणनगणसगणास्तद्वृत्तं हलमुखी नाम । यथा ।
निंदितां वपुषि पुरुषद्वेषिणीं विरदशनाम् ।
तां सखे परिणयविधौ दूरतस्त्यज हलमुखीम् ॥ २३
भुजगशिशुभृता नौ मः । २४
द्वौ नगणौ मगणश्च यत्र तद्वृत्तं भुजगशिशुभृता नाम । सप्तभिर्यतिरित्याम्नायः । यथा ।
वरतरुलवलीवल्लीकिसलयगहनछिन्नाः ।
भुजगशिशुभृता रम्या मलयगिरिवनोद्देशाः ॥ २४
पंक्तौ
म्सौ ज्गौ शुद्धविराडिदं मतम् । २५
मगणसगणजगणा गुरुश्च यत्र तद्वृत्तं शुद्धविराट् नाम । यथा ।
कुर्वन् राज्यमपीह संततं कामक्रोधविवर्जितः सदा ।
मित्रो मे न समोभयानतः(?) सत्यं शुद्धविराडसि प्रभो ॥ २५
म्नौ य्गौ चेति पणव नामेदम् । २६
यत्र मगणनगणयगणा गुरुश्च यत्र तद्वृत्तं पणव नाम । पञ्चभिर्यतिः । यथा ।
यासां वक्ष्यसि घनवक्षोजे हारः संप्रति शुशुभे तारः ।
पादौ नूपुररववाचालौ भ्रातस्ताः पणवनिताः पश्य ॥ २६
र्जौ रगौ मयूरसारिणी स्यात् । २७
रगणजगणरगणा गुरुश्च यत्र तद्वृत्तं मयूरसारिणी नाम । यथा ।
विस्तारेण बर्हिभाररम्या बर्हिणी मयूरसारणीयम् ।
गर्जितं निशम्य वारिदानां नृत्यति प्रमोदनिर्भराङ्गी ॥ २७
भ्मौ सगयुक्तौ रुक्मवतीयम् । २८
भगणमगणसगणा गुरुश्च यत्र तद्वृत्तं रुक्मवती नाम । यथा ।
चेतसि यस्या जीवितनाथस्तत्प्रियकार्यासक्तमनस्का ।
देवगुरुश्वश्रूद्विजभक्ता रुक्मवती स्यात्कीर्तिमती वा ॥ २८
**ज्ञेया मत्ता मभसगयुक्ता । २९ **
मगणभगणसगणगुरवो यत्र तद्वृत्तं मत्ता नाम । चतुर्भिर्यतिरित्याम्नायः । यथा ।
यच्चूताग्रे स्मरशरबंधौ बद्धावासा पिकसहवयः ।
गायन्त्येताः कलमिति मत्तास्तन्मध्येऽहं सखि मधुरेषः ॥ २९
नरजगैर्भवेन्मनोरमा । ३०
यत्र नगणरगणजगणगुरवो तद्वृत्तं मनोरमा नाम । यथा ।
युवतिरिंदुसुंदरानना पृथुघनस्तनी कृशोदरी ।
गुरुनितम्बभारमंथरा हरति मे मनो मनोरमा ॥ ३०
त्जौ जो गुरुणेयमुपस्थिता । ३१
तगणजगणौ जगणो गुरुश्च तद्वृत्तं उपस्थिता नाम । अत्र द्वाभ्यामष्टभिश्च यतिरित्येके । यथा ।
त्यक्त्वा निजशस्त्रमुपस्थिता ये प्रांजलयस्तव शत्रवः ।
तेषामवनीश्वर जीवितं दत्तं भवता समराजिरे ॥ ३१
त्रिष्टुभि
स्यादिन्द्रवज्रा यदि तौ जगौ गः । ३२
यत्र तगणौ द्वौ जगणो गुरू च तद्वृत्तं इन्द्रवज्रा नाम । यथा ।
स्यादिन्द्रवज्रादि कर्कशं मे
चेतो यदीये विरहागमेऽस्मिन् ।
नूनं तदानीं यदि तद्वियोग-
संतापसंयत्सहनक्षमः स्याम् ॥ ३२
उपेन्द्रवज्रा जतजास्ततो गौ । ३३
यत्र जगणतगणजगणा द्वौ गुरू च तद्वृत्तं उपेन्द्रवज्रा नाम । यथा ।
उपेन्द्रवज्रादि महाभिघाता
प्रयान्ति नाशं स्मरतो नरस्य ।
अहर्निशं त्वां विजितामरेश
श्रीकृष्ण विष्णोर्गुरु मे प्रसादम् ॥ ३३
**अनंतरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः । **
**इत्थं किलान्यास्वपि मिश्रितासु स्मरन्ति जातिष्विदमेव नाम ॥ ३४ **
न विद्यन्तेऽन्तरं व्यवधानं यस्य तदनंतरं उदीरितमुक्तं लक्ष्म लक्षणम् । भजत इति यस्याः पादौ तावनंतरोदीरितभाजौ इन्द्रवज्रोपेन्द्रवज्रयोरित्यर्थः । इत्थममुना प्रकारेणान्यास्वपि उक्ताप्रभृतिषु जातिषु मिश्रितास्विदमेवोपजातिं नाम स्मरन्ति वदन्ति छंदोविदः । यथा ।
विहाय पंकेरुहकाननानि स्फारस्फुरत्केतकमभ्युपास्य ।
मेघागमेऽस्मिन्नुपजातिसर्वे भ्रमन्त्यमी षट्चरणा रणंतः ॥
एवमन्यान्यप्युदाहरणानि कुमारसम्भवादिमहाकाव्येषु दृष्टव्यानि ।
समवृत्ताध्यायेऽपि प्रसंगादुपजातीनां पाठा लाघवार्थः । एषां प्रस्तारवशाच्चतुर्दशप्रकारा भवन्ति । ते च लेखकेन पूर्वपत्रे रचिताः । अत्र प्रथमगणकृत एव विशेषः । जत एव प्रस्तार्यन्तो । यथा ।
।ऽ। |
ऽऽ। |
।ऽ। |
ऽऽ। |
।ऽ। |
ऽऽ। |
।ऽ। |
ऽऽ। |
।ऽ। |
ऽऽ। |
।ऽ। |
ऽऽ। |
।ऽ। |
ऽऽ। |
ऽऽ। |
।ऽ। |
।ऽ। |
ऽऽ। |
ऽऽ। |
।ऽ। |
।ऽ। |
ऽऽ। |
ऽऽ। |
।ऽ। |
।ऽ। |
ऽऽ। |
ऽऽ। |
।ऽ। |
ऽऽ। |
ऽऽ। |
ऽऽ। |
ऽऽ। |
।ऽ। |
।ऽ। |
।ऽ। |
ऽऽ। |
ऽऽ। |
ऽऽ। |
।ऽ। |
।ऽ। |
।ऽ। |
।ऽ। |
ऽऽ। |
ऽऽ। |
ऽऽ। |
ऽऽ। |
ऽऽ। |
ऽऽ। |
ऽऽ। |
।ऽ। |
।ऽ। |
।ऽ। |
।ऽ। |
।ऽ। |
।ऽ। |
।ऽ। |
३४
सान्द्रपदं भ्तौ नगगुरुभिश्च । ३५
भगणतगणनगणा द्वौ गुरू तत्र तद्वृत्तं सान्द्रपदं नाम । यथा । ३५
नजजलगैर्गदिता सुमुखी । ३६
नगणजगणजगणा लघुगुरू च यत्र तद्वृत्तं सुमुखी नाम । पंचभिर्यतिरित्याम्नायः । यथा ।
सुतजननी सुकुलप्रभवा
मृदुवचना सुरते चतुरा ।
भवति गृहे विपुलैः सुकृतैः
मृगनयना युवतिः सुमुखी ॥ ३६
दोधकवृत्तमिदं भभभाद्गौ । ३७
यत्र भगणत्रयं द्वौ गुरू च तद्वृत्तं दोधकं नाम । यथा ।
यस्य नरस्य भवेदिह साक्षाद्वृत्तमदोधकयोरपि तुल्यम् ।
तेन समं कथमर्थवतापि प्रेमकथां कथयामि वयस्ये ॥ ३७
शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः । ३८
यत्र मगणतगणतगणा द्वौ गुरू च तद्वृत्तं शालिनी नाम । चतुर्भिः सप्तभिर्यतिरित्याम्नायः । यथा ।
नो जानीते शालिनी वारायार्यप्रायेणेह स्तादभेदं मनुष्यः ।
सोऽपि प्रेम प्राप्य देवीप्रियायाः धुर्यात्मानं वेत्ति वैदग्धभाजाम् ॥ ३८
वातोर्मीयं गदिता म्भौ तगौ गः । ३९
मगणभगणतगणा गुरुद्वयं यत्र तद्वृत्तं वातोर्मी नाम । अत्र वक्ष्यमाणसूत्रे च विशेषानभिधानात्प्रागुक्तैव यतिर्यथा ।
बलाद्वातोर्मय एते सनक्राः सामुद्राणां सलिलानां समूहाः ।
आब्रह्मादीनपि संहृत्य लोकान् येषामन्तः सुखशायी मुरारिः ॥ ३९
म्भौ न्लौ गः स्याद्भ्रमरविलसितम् । ४०
मगणभगणनगणा लघुगुरू च यत्र तद्वृत्तं भ्रमरविलसितं नाम ।
प्राच्येव यतिर्यथा ।
त्यक्त्वा मानं चरणविपतितस्तन्मन्येऽहं प्रिय सखि नियतम् ।
त्वद्वक्त्राब्जभ्रमरविलसितं कर्तुं वांछत्ययमिह दयितः ॥ ४०
पञ्चरसैर्श्रीर्भतनगगैः स्यात् । ४१
भगणतगणनगणा द्वौ गुरू च यत्र तद्वृत्तं श्रीः नाम । पंचभिः षड्भिर्यतिर्यथा ।
द्रव्यविमोहाज्जलनिधियानं संगरभूमौ त्यजति च देहम् ।
कृत्यमकृत्यं गणयति नैव श्रीरसलुब्धो ध्रुवमिह जन्तुः ॥ ४१
कुड्मलदंतीत्येके ।
रो नराविह रथोद्धता लगौ । ४२
यत्र रगणनगणरगणा लघुगुरू च तद्वृत्तं रथोद्धता नाम । यथा ।
लग्न एव पदयोरथोद्धतान्यायताक्षिवचनानि संवृणु ।
सत्रवाभिरिति या प्रबोधिता तां स्मरामि निजजीवितौषधिम् ॥ ४२
स्वागतेति रनभाद्गुरुयुग्मम् । ४३
यस्य पादे रगणनगणभगणा गुरू च तद्वृत्तं स्वागता नाम । यथा ।
सर्वलोकसुखदास्वपि वर्षास्वागतासु न सुखी रिपुवर्गः ।
विन्ध्यवर्मनृपते तव खड्गभ्रान्तिभाजमचिरामभिवीक्ष्य ॥ ४३
ननसगगुरुरचिता वृन्ता । ४४
द्वौ नगणौ सगणो गुरुद्वयं यस्य पादे तद्वृत्तं वृन्ता नाम । अत्र मण्डूकप्लुतन्यायेन शालिन्युक्तेति सूत्रादब्धिलोकैरिति पदमनुवर्तते । तेन हि चतुर्भिर्यतिः । यथा ।
मधुकरचरणभराक्रान्तं पथ तदिह कुसुममिदं वृन्तात् ।
कथयति विषयवियुक्तानां विधिपरिणतिमिव लोकानाम् ॥ ४४
ननरलगुरुभिश्च भद्रिका । ४५
द्वौ नगणौ रगणो लघुगुरू च यत्र तद्वृत्तं भद्रिका नाम । यथा ।
विविधपरकथाप्रगल्भवागतिविरलविसंस्थुलद्विजा ।
कपिलचिकुरसंचया कृशा न भवति वनिता प्रभद्रिका ॥ ४५
श्येनिका रजौ रलौ गुरुर्यदा । ४६
रगनजगणरगणा लघुगुरू च यत्र तद्वृत्तं श्येनिका नाम । यथा ।
श्येनिकाशृगालसंकुले रणे विंध्यवर्मदेव ये त्वया हताः ।
शत्रवस्त एव तारकाश्रयं तन्वते विमानगाः सुरावृताः ॥ ४६
उपस्थितमिदं ज्सौ ताद्गकारौ । ४७
जगणसगणतगणा द्वौ गुरू च यत्र तद्वृत्तं उपस्थितं नाम । यथा ।
उपस्थितमनेकाश्चेतकी चुलुक्यनृपतेः सैन्यं विशालम् ।
अवन्तिप्रिय निहित्वा न कोऽपि ध्रुवं क्षितितले जेतुं समर्थः ॥ ४७
शिखण्डितमिदं ज्सौ त्गौ गुरुश्चेत् । ४८
जगणसगणौ तगणगुरू गुरुश्चेत्तद्वृत्तं शिखण्डितं नाम । यथा । ४८
मौक्तिकमाला भवेद्भभ्तलगाः । ४९
भगणभगणतगणलघुगुरवो यत्र भवेत्तद्वृत्तं मौक्तिकमाला नाम । यथा । ४९
जगत्याम् ।
चन्द्रवर्त्म गदितं तु रनभसैः । ५०
यत्र रगणनगणभगणसगणा भवन्ति तद्वृत्तं चन्द्रवर्त्म गदितम् । यथा ।
चक्षुषी परिविमृश्य करयुगात् क्रान्तहर्यपरिशोभितवदना ।
चन्द्रवर्त्म कथयेत्यतिविवशा कांतमेवमवदन्निशि वनिता ॥ ५०
जतौ तु वंशस्थमुदीरितं जरौ । ५१
यत्र जगणतगणजगणरगणास्तद्वृत्तं वंशस्थं नाम । यथा ।
स्ववेश्मवंशस्थमुदीक्ष्य वायसं प्रियागमासंशिनमुत्तमेंगितैः ।
जगाद काचिन्मुदिता समागते प्रिये प्रदास्यामि तवेप्सितं खग ॥ ५१
स्यादिन्द्रवंशा ततजैः रसंयुतैः । ५२
यत्र द्वौ तगणौ जगणरगणौ तद्वृत्तं इन्द्रवंशा नाम यथा ।
आदीन्द्रवंशाद्दिवमस्तभूरुहप्रच्छादितानेकगुहा गृहोऽपि सन् ।
धाराधिनाथस्य भयेन विद्रुतान् भूगोप्तुरिष्टान्न भवामि नेश्वरः ॥ ५२
इह तोटकमम्बुधिसैः प्रथितम् । ५३
यत्र चत्वारि सगणास्तद्वृत्तं तोटकं नाम । यथा ।
त्यज मानममानमनंतगुणं कुरु वाक्यमिदं परिणामहितम् ।
त्वयि तोटकजायतनेत्रयुगे त्वरितं दयितांतिकमिन्दुमुखि ॥ ५३
द्रुतविलम्बितमाह नभौ भरौ । ५४
नगणभगणौ भगणरगणौ यत्र तद्वृत्तं द्रुतविलम्बितं नाम । यथा ।
द्रुतविलम्बितगेन तवारिणा क्वचिदपि स्थिरभावमविन्दता ।
गुरुनितम्बभरालसगामिनी प्रतिपदं स्ववधूर्नृप निन्द्यते ॥ ५४
वसुयुगविरतिर्नौ म्यौ पुटोऽयम् । ५५
द्वौ नगणौ मगणयगणौ यत्र तद्वृत्तं पुटो नाम । वसुभिरष्टभिर्युगैश्चतुर्भिर्यतिः ।
अपि चरणनतोऽहं तत्प्रसीद त्यज सरसिजनेत्रे मौनमुद्राम् ।
वचनममृतकल्पं श्रोतुकामा श्रवणपुटनिपेयं सर्वदा ते ॥ ५५
प्रमुदितवदना भवेन्नौ ररौ । ५६
द्वौ नगणौ द्वौ रगणौ यत्र तद्वृत्तं प्रमुदितवदना नाम । यथा ।
गुरुकुचयुगलां विशंलक्षणां विकटकटितटां मनोज्ञां सदा ।
विविधसुरतिकेलिदक्षामहं प्रमुदितवदनां स्मरामि प्रियाम् ॥ ५६
चतुर्जगणं वद मौक्तिकदाम । ५७
नयसहितौ न्यौ कुसुमविचित्रा । ५८
नगणयगणौ पुनर्नगणयगणौ यत्र तद्वृत्तं कुसुमविचित्रा नाम । षड्भिर्यतिरित्युपदेशः ।
यथा ।
परिहृतरोषा कृतबहुवेषा सह निजभर्ता तरुणि वसंते ।
प्रमुदितपुंस्कोकिल इव रम्यां व्रज वनराजिं कुसुमविचित्राम् ॥ ५८
रसैर्जसजसा जलोद्धतगतिः । ५९
यत्र जगणसगणजगणा सगणश्च तद्वृत्तं जलोद्धतगतिर्नाम । यथा ।
अतीत्य सरितो जलोद्धतगतीरनेकगहना कुलानपि गिरीन् ।
समुद्रतरमाश्रिता रिपुनृपाः सुखं न निशि शेरते तव भयात् ॥ ५९
भुजंगप्रयातं भवेद्यैश्चतुर्भिः । ६०
चत्वारो यगणा यत्र तद्वृत्तं भुजंगप्रयातं नाम । यथा ।
विदग्धांगनालोचनानन्दकारी सखि स्वेच्छया वीक्षितुं प्राणनाथः ।
मया नैव लब्धो हत ग्राममार्गे भुजंगप्रयातानुकारिण्यमुष्णिग् (?)॥ ६०
रैश्चतुर्भिर्युता स्रग्विणी संमता । ६१
चत्वारो रगणा यस्य पादे तद्वृत्तं स्रग्विणी नाम । यथा ।
पद्मपत्रायताक्षी शशांकानना कुंकुमोद्वर्तितांगी घनोच्चस्तनी ।
अंगहारैरनेकप्रकारैर्युता नृत्यति स्त्री सखे स्रग्विणी सुंदरा ॥ ६१
भुवि भवेन्नभजरैः प्रियंवदा । ६२
नगणभगणजगणरगणा यत्र तद्वृत्तं प्रियंवदा नाम । यथा ।
गुरुपयोधरवती सुमध्यमा विपुलपुण्यनिचयैः स्ववेश्मनि ।
भवति पार्वणशशांकसुंदराननवती प्रियतमा प्रियंवदा ॥ ६२
त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैः । ६३
तगणयगणतगणयगणा यत्र तद्वृत्तं मणिमाला नाम । षड्भिर्यतिः । यथा ।
मातः सुरसिन्धो त्रैलोक्यपवित्रे पश्यामि कदा ते पापापहमम्भः ।
चंचन्मणिमालालंकारमणीनां त्यक्त्वा वनितानां संगं विषतुल्यम् ॥ ६३
धीरैरभाणि ललिता तभौ जरौ । ६४
यत्र तगणभगणजगणरगणास्तद्वृत्तं ललिता नाम । यथा ।
पीनोन्नतस्तनभरोपरिस्फुरद्धारावलीसुभगमायतेक्षणा ।
नृत्यत्यसौ सुललितं हि नूपुराध्वानप्रबोधितमनोभवा वधूः ॥ ६४
प्रमिताक्षरा सजससैरुदिता । ६५
सगणजगणौ सगणौ यत्र तद्वृत्तं प्रमिताक्षरा नाम । यथा ।
चरणानतिं गतवति प्रसभं दयिते नितांतसुभगे सुभगे ।
परुषाणि संत्यज वचांसि सखि प्रमिताक्षरा भव शशांकमुखि ॥ ६५
ननभरसहिताऽभिहितोज्ज्वला । ६६
द्वौ नगणौ भगणरगणौ च यत्र तद्वृत्तं उज्ज्वला नाम । यथा ।
इह शरदि भवन्त्युकाशया (?) विमलतरशशांककरोज्ज्वला ।
विदधति गमनं विजयार्थिनः प्रतिदिवसमवनीपतयः स्वयम् ॥ ६६
पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ यौ । ६७
द्वौ मगणौ द्वौ यगणौ च यत्र तद्वृत्तं वैश्वदेवी नाम । पञ्चभिः सप्तभिर्यतिः । यथा ।
वश्यात्मा नित्यस्नानशीलो महात्मा मित्रे शत्रौ वा तुल्यचित्तप्रवृत्तिः ।
श्रद्धासंपन्नो वैश्वदेवी च लोके स स्वर्गस्त्रीणां वल्लभः स्यात्सदैव ॥ ६७
अब्ध्यंगैः स्याज्जलधरमाला म्भौ स्मौ । ६८
मगणभगणसगणमगणा यत्र तद्वृत्तं जलधरमाला नाम । चतुर्भिरष्टभिश्च यतिः । यथा ।
सत्याकाशे जलधरमालाव्याप्ते नीपामोदे प्रसरति झंझावाते ।
वर्षाकाले मुदितमयूरव्राते त्यक्त्वा कान्तां व्रजसि कथं पाथ त्वम् ॥ ६८
इह नवमालिनी नजपरौ भ्यौ । ६९
नगणजगणभगणयगणा यत्र तद्वृत्तं नवमालिनी नाम । इहेत्यवग्रहणादब्ध्यंगैरिति पदविरीततया विपरिणमति तेनाष्टभिः चतुर्भिर्यथा ।
तव निशितासिघातदलिता रिद्धिपदकुम्भमौक्तिकसमूहैः ।
कृतनवमालिनीव भजति त्वां प्रति स्मरं नरेन्द्र जयलक्ष्मीः ॥ ६९
स्वरशरविरतिर्नौ रौ प्रभा नाम । ७०
भवति नजावथ मालती जरौ । ७१
नगणजगणौ जगणरगणौ यत्र तद्वृत्तं मालती नाम । यथा ।
भ्रमरयुवा भ्रमतीह मालतीतरुतलमप्यपहाय केतकीम् ।
युवतिजनेन गृहीत नाम कः कथमपि न प्रतिबोधमेत्यसौ ॥ ७१
वरतनुरित्येके ।
जरौ जरौ वदन्ति पञ्चचामरम् । ७२
इति वद तामरसं नजजाद्यः । ७३
नगणजगणौ जगणयगणौ यत्र तद्वृत्तं तामरसमिति वद शिक्षमिति शेषः । यथा ।
मृदुतरतामरसारुणपादव्रणतितिविस्रवदस्रजलौघाः ।
विदधति पर्व तिरोधसि यानं करपिहितोच्चक्रु वा रिपुवधः ॥ ७३
अतिजगत्याम् ।
तुरगरसयतिर्नौ ततौ गः क्षमा । ७४
यत्र द्वौ नगणौ द्वौ तगणौ गुरुश्च तद्वृत्तं क्षमा नाम । यथा ।
सप्तभिः षड्भिश्च यतिः । यथा ।
चकितमृगदृशा नेक्षितो लीलया त्रिवलितवदनश्रीचयाहं मुहुः ।
न च सुरतटिनी न क्षमा चाश्रिता गतमिदमधुना जीवितं मे वृथा ॥ ७४
म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम् । ७५
मगणनगणजगणरगणगुरवो यत्र तद्वृत्तं प्रहर्षिणी नाम । त्रिभिर्दशभिर्यतिः । यथा ।
लोलाक्षी विपुलनितम्बबद्धकाञ्ची पीनोच्चस्तनयुगला सुरोमराजिः ।
नृत्यन्ती सुललितमंगहाररम्यं वारस्त्री गमनलसत्प्रहर्षिणीयम् ॥ ७५
पाठान्तरम् ।
चतुर्ग्रहैरिह रुचिरा जभौ स्यौ गः । ७६
चतुर्ग्रहैरिह रुचिरा जभैस्जगाः । ७६
जगणभगणसगणजगणा गुरुश्च यत्र तद्वृत्तं रुचिरा नाम । यथा ।
समीहते य इह परापदापदं वियच्छरित्तटरुचिरोटजालयः ।
मृगीदृशो वदनसरोजदर्शनं न तस्य तत्प्रमदकरं कवत् ॥ ७६
वेदै रन्ध्रैर्म्तौ यसगा मत्तमयूरम् । ७७
यत्र मगणतगणयगणसगणगुरवस्तद्वृत्तं मत्तमयूरम् । चतुर्भिर्नवभिर्यतिः । यथा ।
चञ्चं चूतं पुष्पितकं केल्लितरूभिः क्रीडत्क्रोडं संचरदुन्मत्तमृगोधम् ।
स्निग्धच्छायं वारिततापं तरुखण्डैः माद्यद्भृंगं मत्तमयूरं वनमेतत् ॥ ७७
पाठान्तरम् ।
नजसजगैर्भवति मञ्जुभाषिणी । ७८
सजसा जगौ भवति मञ्जुभाषिणी । ७८
यस्य पादे सगणजगणसगणजगणा गुरुश्च तद्वृत्तं मञ्जुभाषिणी नाम । यथा ।
स्मर सुंदराकृतिमनेकवल्लभं चरणप्रणामनतमीप्सितं पतिम् ।
परुषोक्तिभिः किमिति खेदयस्यमु सखि वल्लभा भवति मञ्जुभाषिणी ॥ ७८
इह नंदिनी सजससैर्गुरुयुक्तैः । ७९
सश्च जश्च सश्च सश्च तैः सगुरुभिर्नन्दिनी । ७९
ननतरगुरुभिश्चन्द्रिका चतुर्भिः । ८०
द्वौ नगणौ तगणरगणौ गुरुश्च यत्र तद्वृत्तं चन्द्रिका नाम । चतुर्भिर्यतिर्यथा ।
वितरति कुमुदानां श्रियं समग्रां तम इव वनितानां भिनत्ति मानम् ।
ततमपि भुवनं चन्द्रिका भुवस्थाधवलितमिव चक्रे शरन्निशासु ॥
अष्टभिर्यतिरित्येके । ८०
शक्वर्याम्
म्तौ न्सौ गावक्षग्रहविरतिरसंबाधा । ८१
मगणतगणनगणसगणा द्वौ गुरू च यत्र तद्वृत्तं असंबाधा नाम । अक्षैरिन्द्रियैः पञ्चभिर्ग्रहैर्नवभिश्च यतिः । यथा ।
यावद्गच्छेयं दयितविहितसंकेतस्थानस्याभ्यां सङ्कृतनिवृततुलाकोटिः ।
तावच्चक्रेऽग्रे द्रुतमुदयमयं वैरी भित्वा संबंधान्यपि सखि तिमिराणीन्दुः ॥ ८१
ननरसलघुगैः स्वरैरपराजिता । ८२
द्वौ नगणौ रगणसगणलघुगुरवो यत्र तद्वृत्तं अपराजिता नाम ।
सप्तभिर्यतिः । यथा ।
तुरगरजवतीं तुलार्कमहीपतेरितरनृपशतैश्चमूमपराजिताम् ।
जयति विजयिदोर्युगैकसहायवानवनिपतिरसौ प्रमारकुलोद्भवः ॥ ८२
ननभनलगिति प्रहरणकलिका । ८३
नगणौ भगणनगणलघुगुरवश्च यत्र तद्वृत्तं प्रहरणकलिका नाम । इति शब्दस्याव्ययस्य ग्रहणात्सैव यतिः । यथा ।
रणभुवि भवता प्रहरणकलिता परहृतवनितास्तव नृप रिपवः ।
विदधति शयनं कृततृणशयना वनभुवि सततं भयचकितहृदः ॥ ८३
उक्ता वसंततिलका तभजा जगौ गः । ८४(१)
तगणभगणौ द्वौ जगणौ द्वौ गुरू च यस्य पादे तद्वृत्तं वसंततिलका नाम । यथा ।
भ्रातर्वसंततिलकानतिमुक्तकं च संदश्यतेऽत्र किमु मत्परमस्त्वमेतत् ।
नाऽहं स योऽभवदनेकविधोत्सवश्रीः संप्रत्यसत्यविरहैकगृहं प्रियायाः ॥
सिंहोद्धतेयमुदिता मुनिकाश्यपेन । ८४(२)
इयमेव वसंततिलका कश्यपस्याचार्यस्य मतेन सिंहोद्धता नाम । यथा ।
उन्निद्रपद्मवदनः सुभगोऽङ्गनानामारक्तपादतलपाणीरदीनसत्त्वः ।
सिंहोद्धता समगलः सुविशालवक्षाः स्यादीदृशो नरपतिः पुरुषः पृथिव्याः ॥
उद्धर्षिणी निगदिता मुनिसैतवेन । ८४(३)
सैव वसंततिलका सैतवमुनिना उद्धर्षिणी निगदिता उक्ता । यथा ।
संवत्सरे रसपयोनिधिसूर्यसंख्यैः श्रीविक्रमान्नरपते रचिता ममेयम् ।
उक्ता सनामभिरुदाहरण्यैरुदारैरुद्धर्षिणी भवतु चेतसि सत्कवीनाम् ॥
गोमेन सैवमुदिता मधुमाधवीति । ८४(४)
वसंततिलकामित्येके । ८४
**इन्दुवदना भजसनैः सगुरुयुग्मैः । ८५ **
भगणजगणसगणनगणा द्वौ गुरू च यस्य पादे तद्वृत्तमिन्दुवदना नाम । यथा ।
मारुतवशप्रचलितोत्पलदलाक्षं शोभनललाटतटमध्यकृतपुण्ड्रम् ।
रे पथिक संप्रति मधौ मदनबन्धौ संस्मरसि तद्वदनमिन्दुवदनायाः ॥ ८५
द्विःसप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत् । ८६
यस्य चरणे पादे मगणसगणमगणभगणा द्वौ गुरू तद्वृत्तं अलोला नाम । सप्तभिर्यतिः । यथा ।
यो देव द्विजभक्तः संसारेषु विरक्तः श्रौतस्मार्तविधीनां कर्ता त्यक्तविकल्पः ।
मैत्रः कारुणिकात्मा क्रोधामर्षविमुक्तस्तस्य श्रीभुवने स्याल्लोला नूनमलोला ॥ ८६
अतिशक्वर्याम् ।
द्विहतहयलघुरथ गिति शशिकला । ८७
द्विहतहयलघुरित्यर्थः गुरुश्च भवति यस्य चरणे तद्वृत्तं शशिकला नाम । सप्तभिरष्टभिर्यतिः । पारिशेष्याद्यथा ।
कुसुमशरतनुदहनशिरसि जटामुकुटतटमणिरमलकिरणा ।
तव भवतु सुखकृदयमिह सततं प्रविपदि सुनभसि वसति शशिकला ॥ ८७
स्रगिति भवति रसनवकयतिरियम् । ८८
षड्भिर्नवभिश्च यदा यतिर्भवति तदा स्रगिति नाम । मालेति वक्तव्ये छंदोभंगभयात् स्रगित्युक्तम् । एकार्थत्वान्न दोषः । यथा ।
घनपरिमलमिलितमधुपनिचया स्रगियमुरसि तव शशिमुखि शुशुभे ।
कटकयुगलमपि कलरवसुभगं श्रियमिदमिह जनयति सुचरणया ॥ ८८
वसुहययतिरिति मणिगुणनिकरः । ८९
इयमेव शशिकला वस्वष्टभिर्हयैः सप्तभिर्यदा मणिगुणनिकरः नाम । यथा ।
परजनहितकरवरधनकलितः सुवचनकृतवरजनसुखनिवहः ।
भवभुवि भवकृतवरतरमहिमा स भवति नरवर मणिगुणनिकरः ॥ ८९
ननमयययुतेयं मालिनी भोगिलोकैः । ९०
द्वौ नगणौ मगणो द्वौ यगणौ यस्य तद्वृत्तं मालिनी नाम । यथा । अष्टभिः सप्तभिर्यतिः ।
नवजलधरमालामालिनीं तां विलोक्य
निजदयितवियोगप्रान्तभावं निबोधम् ।
न न खलु जलधराणां नादमाकर्ण्य कश्चि-
द्भवति शिथिलबुद्धिर्वेश्म गन्तुं प्रवासी ॥ ९०
भवति नजौ भजौ रसहितौ प्रभद्रकम् । ९१
यस्य पादे नगणजगणभगणजगणरगणास्तद्वृत्तं प्रभद्रकं नाम । यथा ।
अलभत दुश्चरेण तपसा हिमाद्रिजा
यमिह पतिं पतिं त्रिजगतां महेश्वरम् ।
पवनसमुद्धुतामलिशिखाहुतस्मरो
दिशतु सतां सदैव सवि सुप्रभद्रकम् ॥ ९१
सजना नयौ शरदशकविरतिरेला । ९२
सगणजगणनगणनगणयगणा यत्र तद्वृत्तमेला नाम । पंचभिर्दशभिर्यतिः । यथा ।
वरचंदनद्रुमकिशलयमरिचैला-
लवलीलताप्रभृतिवनमिह धुन्वन् ।
मलयानिलः सपदि विदलितप्रयुक्त-
प्रमदाजनः प्रसरितपतिबन्धुः ॥ ९२
म्रौ म्यौ यान्तौ भवेतां सप्ताष्टभिश्चन्द्रलेखा । ९३
यस्य पादे मगणरगणमगणा द्वौ यगणौ तद्वृत्तं चन्द्रलेखा नाम । सप्तभिरष्टभिर्यतिः । यथा ।
विभ्रान्तिश्चन्द्रलेखां चूडामणिस्थानभृत्तां
यस्तार्तीयं च नेत्रं जाज्वल्यमानं ललाटे ।
कण्ठे यस्यास्थिमाला भस्मांगरागः शरीरे
कल्पांतां वः स दश्यात्त्रैलोक्यनाथो गिरीशः ॥ ९३
अष्टौ
भ्रत्रिनगैः रसात्खमृषभजगविलसितम् । ९४
भगणरगणौ त्रयो नगणा गुरुश्च यत्र तद्वृत्तं ऋषभगजविलसितं नाम । षट्दशभिर्यतिः ।
यत्र चतुष्पथेषु विविधयुवतिजनता
साममनोरमेषु तव रिपुवरनगरे ।
त्वद्भुजविक्रमेण नृपतिवर विजयति
संप्रति तत्र वन्यमृषभगजविलसितम् ॥ ९४
नजभजरैः सदा भवति वाणिनी गयुक्तैः । ९५
नगणजगणभगणजगणरगणा गुरवो यत्र तद्वृत्तं वाणिनी नाम । यथा ।
चकितमृगेक्षणा गुरुनितम्बबद्धकाञ्ची
गुणकलकिंकिणीरवविबोधासमेषुः ।
जनयति वाणिनी चतुरवाक्यपण्डितेयं
मुदमधिकां सखे मनसि करोति दृष्टा ॥ ९५
अत्यष्टौ
रसैः रुद्रैश्छिन्ना यमनसभला गः शिखरिणी । ९६
यगणमगणनगणसगणभगणा लघुगुरू च यत्र तद्वृत्तं शिखरिणी नाम । षड्भिरेकादशभिर्यतिः ।
शशांकास्या चंचत्कुवलयदलस्पर्धिनयना
सलीलं गच्छंती गुरुजघनभारालसगतिः ।
इयं पीनोत्तुंगस्तनशिखरिणी वारवनिता
कटाक्षैर्विक्षोभं जनयति मुनीनामपि हृदि ॥ ९६
जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः । ९७
जगणसगणजगणसगणयगणलघुगुरवो यत्र तद्वृत्तं पृथ्वी नाम । यथा ।
किमित्ययमसंस्कृतस्तव सुकेशि केशोच्चयः
किमित्युत सुमेखलाविरहिता च पृथ्वी कटिः ।
तदेहि कुरु मण्डनं त्यज रुषं वसंतोत्सवे
यतः सुतनु पञ्चषैरपि दिनैर्वयो यास्यति ॥ ९७
दिङ्मुनि वंशपत्रपतितं भरनभनलगैः । ९८
भगणरगणनगणभगणनगणलघुगुरवो यत्र तद्वृत्तं वंशपत्रपतितं नाम । दशभिः सप्तभिर्यतिः । यथा ।
नैव विदुस्तृषातुरधियस्तव रिपुनगरे
मंदिरदीर्घिकासु सलिलं सविधमपि मृगाः ।
अम्बुजवंशपत्रपतितद्रुमदलनिकरैः
छादितमातपे तु महति क्षितिपति तलका (?) ॥ ९८
रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा । ९९
नगणसगणौ मगणरगणौ सगणलघुगुरवो यत्र तद्वृत्तं हरिणी नाम । षड्भिः चतुर्भिर्यतिः । यथा ।
वदनममलं धत्ते शोभां शशांकसमाश्रितां
श्रवणयुगलं दोलालीलां तनोति मनोभुवः ।
स्तनपरिसरे हारः स्फारः स्फुरत्यतिनिर्मलः
किमिह न चेत्तस्याहारि ध्रुवं हरिणीदृशः ॥
ऋषभचरितमित्येके । ९९
मन्दाक्रान्ता जलधिषडगैः म्भौ नतौ ताद्गुरू चेत् । १००
मगणभगणनगणा द्वौ तगणौ द्वौ गुरू च यस्य पादे तद्वृत्तं मन्दाक्रान्ता नाम । चतुर्भिः षड्भिश्चेद्यतिर्भवति । यथा ।
मन्दाक्रान्ताधरकिसलया पाणिपद्मं धुनाना
गाढाश्लेषप्रणयिशिथिला वेपमानांगयष्टिः ।
स्विद्यद्वक्त्रा पुलकिततनुः किंचिदामीलिताक्षी
चेतःप्रीतिं जनयति भृशं नूतनोढा विवोढा ॥ १००
यदि भवतो नजौ भजजला गुरुर्नर्कुटकम् । १०१
नगनजगणभगणा द्वौ जगणौ लघुगुरू अह तद्वृत्तं नर्कुटकं नाम । अवितथमिति अन्ये । यथा ।
सुरभिसमागमे विरहिणीजनशोककरे
कृतबहुमण्डना त्वमतिभामनि मद्वचनैः ।
निजदयितांतिकं यदि न यासि गतं तदहो
अवितथवाक्यकौशलमिदं मम निष्फलताम् ॥ १०१
मुनिगुहकार्णवैः कृतयतिं वद कोकिलकम् । १०२
नर्कुटकमेव सप्तभिः गुहकैः कार्तिकेयशिरोभिः षड्भिश्चतुर्भिः कृतयतिं तद्वृत्तं वद कोकिलकं हे शिष्येति विशेषः । यथा ।
मदनमहोत्सवे मुदितकोकिलकान्तरवे
न भजति या प्रियं प्रणयसुन्दरमिन्दुमुखि ।
ध्रुवमिह साबला स्वयमहर्निशमेव भृशं
सखि परितप्यते गुरुमनोभवतापवती ॥ १०२
धृतौ
स्याद्बाणर्त्वश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ । १०३
मगणतगणौ नगणस्त्रयो यगणा यत्र तद्वृत्तं कुसुमितलतावेल्लिता नाम । पंचभिः षड्भिः सप्तभिर्यतिः । यथा ।
उद्यानाब्जानां प्रकरधुननावाससौरभ्यसंपत्
कंकोलैलानां कुसुमितलतावेल्लितान्यः पुनानः ।
आगस्त्यो वायुर्दिवि सुरतायासयातांगनानां
स्वेदाम्भोबिन्दून्हरति पुनरप्यादिशन्संगमेच्छाम् ॥ १०३
अतिधृत्याम्
रसर्त्वश्वैर्य्मौ न्सौ ररगुरुयुता मेघविस्फूर्जितं स्यात् । १०४
यगणमगणनगणसगणा द्वौ रगणौ गुरुश्च यस्य पादे तद्वृत्तं मेघविस्फूर्जितं नाम । षड्भिः षड्भिः सप्तभिर्यतिः । यथा ।
समायातः स्वैरं कुटजकुसुमामोदवाही समीरः
श्रुतं धैर्यं ध्वंसि प्रसभमधुना मेघविस्फूर्जितं च ।
वियोगे सद्भर्तुः निजलवणिमाऽधःकृतस्वंतिजस्य
प्रयान्ती मे प्राणा कुलिशकठिना मेघनाशं तथापि ॥ १०४
सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् । १०५
मगणसगणजगणसगणा द्वौ तगणौ गुरुर्यस्य पादे तद्वृत्तं शार्दूलविक्रीडितं नाम । द्वादशभिः सप्तभिर्यतिः । यथा ।
श्रीखण्डाचलकंदरात्सरभसं निर्गत्य सांद्रं द्रुमां-
श्चंचच्चम्पकचारुकेसरभरं धन्वन्मुहुर्लीलया ।
इत्थं विभ्रदयं वसन्तपवनः शार्दूलविक्रीडितम्
स्त्रीणां मानगजं हनिष्यति हठात् मानोत्कटानामपि ॥ १०५
[कृतौ]
ज्ञेया सप्ताश्वषड्भिर्मरभनययुतो भ्लौ गः सुवदना । १०६
यस्य वृत्तस्य पादे मगणरगणभगणनगणयगणभगणलघुगुरुस्तद्वृत्तं सुवदना नाम । सप्तभिः सप्तभिः षष्ठश्च यतिः ।
रम्भास्तम्भोपमोरुः सुगुरुघनकुचा सारंगनयना
मध्यक्षामा सुरोमावलिरमलमदंता चन्द्रवदना ।
हृत्स्थं भावं कटाक्षैर्निजमिव कथयत्येषा सुवदना
यूनां चेतांसि सद्यो मदयति युवतिश्छेकोक्तिकुशला ॥ १०६
त्री रजौ गलौ भवेदिहेदृशेन लक्षणेन वृत्त नाम । १०७
त्रीन्वारान्रगणजगणौ गुरुलघू यस्य पादे तद्वृत्तं वृत्त नाम वृत्ताभिधानमित्यर्थः ।
संपदाप्तिसम्भवो मदः कदाचिदेव मानसे नगस्य
न प्रमाणविद्यया परप्रमेयजालभंगदक्षयाऽपि ।
नाप्यरूपरूपया परांगनाभिमर्शनो रसः कदापि
तस्य वृत्तमीदृशं शिरोभिरुह्यते नरैरतो विचार्यः ॥ १०७
प्रकृतौ
म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् । १०८
मगणरगणभगणनगणा यगणत्रयं यस्य पादे तद्वृत्तं स्रग्धरा नाम । वारत्रयं सप्तभिर्यतिः ।
यासामुन्निद्रपद्मद्युतिमुखममलं स्फारविस्फारिताक्षम्
चञ्चत्काञ्चीगुणेन स्फुरदुरुमणिनाऽऽवर्तलक्ष्मीं वितन्वत् ।
चेतःप्रीतिं नराणां विदधति विलसन्नाभिमध्यप्रदेशा
गच्छन्त्यो राजमार्गे विकचविचकिलस्रग्धरा राजवध्वः ॥ १०८
आकृतौ
भ्रौ नरना रनावथ गुरुर्दिगर्कविरमं हि मद्रकमिदम् । १०९
भगणरगणनगणा रगणनगणरगणनगणगुरवो यस्य पादे तद्वृत्तं मद्रकं नाम । दशभिर्द्वादशभिर्यतिः । यथा ।
त्वत्कथितैरलीकवचनैः करोमि कथमस्य कोपमसमम्
यस्य न विप्रियं सखि मया श्रुतं न च निरीक्षितं कथमपि ।
मद्रकरैरयं प्रियतमः करोति वचनैर्मनः समदनम्
पाश्यविमुक्तजालमधुना ममाङ्ध्रियुगले लुठत्यपि भृशम् ॥ १०९
विकृतौ
यदिह नजौ भजौ भ्जभलगास्तदाश्वललितं हरार्कयतिमत् । ११०
यस्य पादे नगणजगणौ भगणजगणभगणजगणभगणलघुगुरवो भवन्ति तद्वृत्तं अश्वललितं नाम । एकादशभिर्द्वादशभिर्यतिः । यथा ।
समरविनिर्जितारिनिवहक्षितीश्वरविचित्रमश्वललितम्
हृदयचमत्कृतिप्रदमिदं विलोक्य भवतो वदन्ति कवयः ।
ध्रुवमुररीचकार नृपतेर्दिवस्पतिरिमं तुरंगमवरं
बहुतरमन्यथा न वियति क्रथैरिह विवेलतेऽतिबहुलैः (?) ॥ ११०
मत्ताक्रीडं मौ त्नौ नौ न्लौ गिति भवति वसुशरदशयतियुतम् । १११
यस्य पादे द्वौ मगणौ तगणनगणौ द्वौ नगणौ नगणलघुगुरवस्तद्वृत्तं मत्ताक्रीडं नाम । अष्टभिः पञ्चभि दशभिश्च यतिः । यथा ।
दृष्ट्वा चान्द्रं बिम्बं रात्रौ करनिकरविनिहिततिमिरनिकरम्
गायन्ति स्म स्वैरं यस्मिन्सुविकसितकुसुमवति मधुसमये ।
पौरा बद्धास्तस्मिन् संप्रत्यवनिपतितिलक तव नगरे
मत्ताक्रीडातिस्वच्छन्दं विगतभयभवभमितमृगनिवहाः ॥ १११
संकृतौ
भूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी । ११२
भगणतगणनगणसगणा द्वौ भगणौ नगणयगणौ यस्य पादे तद्वृत्तं तन्वी नाम । पंचभिः सप्तभिरादित्यैश्च यतिः । यथा ।
या मुखपद्मं शशधरसदृशं सुन्दरलोलनयनमतिरम्यम्
सुभ्रु बिभर्ति त्रिभुवनजयिनो वासनिवासमिव मकरकेतोः ।
पीननितम्बा गुरुकुचयुगला वृत्तसुकोमलभुजकरयुग्मा
सा मम चित्ते जनयति युवती हर्षमनल्पमियमिह सुतन्वी ॥ ११२
अतिकृतौ
क्रौञ्चपदा भ्मौ स्भौ ननना न्गी इषुशरवसुमुनिविरतिरिह भवेत् । ११३
भगणमगणसगणभगणाश्चत्वारो नगणा गुरुश्च यस्य पादे तद्वृत्तं क्रौञ्चपदा नाम । पञ्चभिरष्टभिः सप्तभिश्च यतिः । यथा ।
क्रौञ्चपदा या रोमशगात्री विकटदशनतनिरतिपरुषतनुः
पिंगलदृष्टिः सूक्ष्मनितम्बा कपिलकचनिचयविषमकुचयुगा ।
या च हसन्ती लोचनवारि प्रकटयति रहसि निजपतिविमुखी
मुञ्च सखे तामिष्टतमं चेच्चिरतरमिह तव चर विषयसुखम् ॥ ११३
उत्कृतौ
वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजंगविजृम्भितम् । ११४
द्वौ मगणौ तगणस्त्रयो नगणा रगणसगणौ लघुगुरू च यस्य पादे तद्वृत्तं भुजंगविजृम्भितं नाम । अष्टभिरेकादशभिः सप्तभिर्यतिः । यथा ।
प्रालेयांशुज्योत्स्नाकांतद्युतिशुभमविमलसद्वितानमनोहरे
क्रीडागारे चञ्चच्चिरत्र कुसुमपरिमलमिलदलिव्रजेशुधयोज्ज्वले ।
प्रेमोद्रेका वेश्यावृत्तं कुलयुवतिरपि वितनुते यदा सुरतोत्सवे
प्रेयानप्यानन्देनेव प्रकटयति रहसि न तदा भुजंगविजृम्भितम् ॥ ११४
मो नाः षट् सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम् । ११५
यस्य पादे मगणो नगणा षट् सगणो द्वौ गुरू च यत्र तद्वृत्तमपवाहं नाम । नवभिः षड्भिः षड्भिः पंचभिः यतिः । यथा ।
आत्मानं कलयति तृणमिव सुरगुरुधरणितलसुरगवामर्थो
यो नित्यं विकसितमुखकमलमिह वितरति धनममलमर्थिभ्यः ।
संपत्या समुपहसितधनदविभवनिवहदौरभ्यात्
लोकः पश्यति विगलितबहुविधिमतिमतिकृशतनुमपवाहं तम् ॥ ११५
॥ उक्तादिजातिप्रकरणम् ॥
अत एवं उर्ध्वं शेषजातिप्रकरणं भवति । तच्चात्र नोक्तं ग्रन्थगौरवभयात्केदारेण एवमुक्तादिजातिषु उत्कृत्यवसानासु श्रीप्रभृति अपवाहान्तानि समवृत्तानि पदर्श(?) । ‘यत्किंचिद्दृश्यते छन्दः षड्विंशत्यधिकाक्षरम् । शेषजात्यादिकं मुक्त्वा तत्सर्वं दण्डका विदु’रित्यादिलक्षणान् दण्डकानाह ।
यदिह नयुक्तगलं ततः सप्तरेफास्तदा चण्डवृष्टिप्रयातो भवेद्दण्डकः । ११६
इह शास्त्रे चण्डवृष्टिप्रयातो नाम दण्डको भवेत् । यदा नगणौ द्वौ सप्तरगणाश्च भवन्ति । शतमाण्डवाभ्यामृषिभ्यामनेकाऽस्य संज्ञा कृता । यथा ।
कुवलयदलदीर्घनेत्रा सुमध्या पृथुश्रोणिबिम्बा नवप्रागसंसक्तहृत्
प्रथमविरहपीडिता सा मृता प्रेयसी गर्जितं वारिदानां निशम्य ध्रुवम् ।
नभसि कुटजपुष्पसंभारगंधासवोन्मत्तभृंगांगना गीयमानागमे
हत पथिक वृथा किमायास................................... ।
चण्डवृष्टिरित्येके । ११६
प्रतिचरणविवृद्धरेफाः स्युरर्णार्णवव्यालजीमूतलीलाकरोद्दामशंखादयः । ११७
चरणं चरणं प्रति प्रतिचरणं रगणानां वृद्ध्या इहार्णादयो दण्डकास्स्युः ।
अष्टभी रगणैरर्णो यथा ।
श्रमसलिलमपकरोति द्रुतं कामिनीनां रसायासजं मरुच्चीकरामोदवान्
जनयति मधुपस्य तीरद्रुमाली लसत्पल्लवालंकृतां कामिनीविभ्रमादेशकम् ।
अयमिह दयितैः पुरोर्णानिधिं यस्य शक्यं समसायुवज्रप्रहारानभिज्ञभ्युसी (?)
भुजगपुरवधूलसल्लोचनानन्दकरो स्फुरन्ती न लीलां तनोति राजात्मजः ॥
नवभी रगणैरर्णवो यथा ।
त्रिनयननगतुंगशृंगश्रियं बिभ्रदुद्दण्डडिंडीरपिण्डावदातैस्तरंगोत्तरैरुल्लसन्
मकरतिमितिमिंगिलो विस्तृताधिष्ठितक्रोडसंप्राप्तशोभैर्नभःप्रांगणज्ञापकैः ।
भुजगशयनशयितो देवदेवस्य यो वास वेश्मश्रियो जनेनार्णवसोऽयमग्रीः प्रिये
तव नयनपथं प्रयातस्तनोतुं प्रमोदं विनोदास्पदं तीरसंभूतपुन्नागपूगद्रुमैः ॥
दशभी रगणैः व्यालो यथा ।
प्रसयति मलयानिले विप्रयुक्तांगनादीर्घनिःश्वाससंपर्कसंववर्धितप्रौहितावेमतोनन्दनि
स्फुडितबकुलकर्णिकाराम्रदुन्नागमाकंदकंकिल्लिसच्चम्पकामोदवाहिन्यमुष्मिन् वसंतागमे।
भज चरणयुगानतं संनतांगिप्रियं प्रीतिसंदोहकामिनी नाम नगातुराणां मृगीचक्षुषाम्
तरुणीमनि (?) सखि स्फुरज्ज्वालजिह्वाग्रलोलेऽङ्गनानां सदा सौख्यं विध्वंसिनाऽनेन किं दग्धमानेन ते ॥
तैरेकादशभिर्जीमूतैर्यथा ।
प्रियविरहितकामिनी जीविता सा विनाशैकदक्षानिलोद्धूतकादम्बपुष्पासवामूर्च्छिताशेषभृंगध्वजो ।
नभसि नभमिवांक्षसौदामिनीमालयालंकृतं नीलजीमूतपंक्तिं बलाकावलीसेवितां लोचनानन्ददाम् ।
विरचितमधुरस्वरं चातकानां च रम्यं समूहं तु सास्कांतमप्युन्मदं(?) भाविनीं तृप्तिमाकांक्षमाणम् ।
मुहुकृतविततसुबर्हिभारः शिखीसंवन्मन्मथा प्रेयसी प्रीतिमुत्पादयन् नृत्यति स्वाङ्ध्रिविन्याससौंदर्यवत् ॥
द्वादशभिर्लीलाकरो यथा ।
अभिनवनवपल्लवास्वादसंशुद्धकण्ठान्यपुष्टांगनासुंदरारध्वगीतध्वनिप्राप्तबोधिर्यदि चक्रवाले वने ।
कुसुमितबहुपाटला कर्णिकाराम्रसत्सिंदुवारोत्तमाशोकसत्पुष्पभारा वनश्रीकृताशेषशाखालसत्पल्लवे वने ।
विलपति वनिता घनस्याभिमानग्रहं लास्यलीलाकरो माधवी पल्लवानामयं कामदेवैकबन्धवसन्तानिलो ।
जगति विजयिनीं स्मराज्ञामिवाविष्करोत्यंगनानां रतायासजस्वेदबिन्दुप्रसक्तालकप्रांतकंपं विधित्सुर्मुहुः ॥
त्रयोदशभी रगणैरुद्दामो यथा ।
शशधरसदृशं मुखाम्भोरुहं बिभ्रती पक्वबिम्बाधरोद्दामहारावलीशोभितोच्चस्तनी सूक्ष्मरोमावलीप्राप्तनाभिहृदा ।
श्रवणयुगनिवेशितस्वर्णताण्डंकसंलग्नरत्नप्रभासितापांगरंगांगणोत्संगसंनृत्यमानेक्षणक्षोभितक्ष्मातला ।
कलरववरकिंकिणीपक्वणन्मेखलालंकृतश्रोणिबिम्बानुवृत्तानुपूर्वोरुयुग्मा सरोजारुणाङ्ध्रिद्वयन्यस्तसन्नूपुरा ।
हृदयमशरणं मुनीनामपीयं सलीलं व्रजंती करोति स्फुरच्चीवरप्रांजलोद्बोधितानंगलक्ष्मीकृताशेषलोकं भृशाम् ॥
चतुर्दशभी रैः शंखो यथा ।
क्वचिदुपरि तरच्चंदवल्लीवितानैः क्वचिद्द्रुमाणां लतासंचयैः संचरन्नक्रचक्रैः क्वचिन्नीरसंभूतपूगद्रुमैः शोभितम् ।
क्वचिदपि घनसांम्रहिंतालतालावलीचारुताम्बूलवल्लीसमूहैः (?) क्वचिद्व्यालसल्लोलकोलाहलोत्पादितोर्वीप्रकंपम् ।
क्वचिदभिनवचम्पकोन्निद्रचंचत्प्रस्तनासवामोदसंपर्कः संप्राप्तसौरभ्यसंपत्समीरागमातीततोयकणैः सेकितं नीरहृतं विद्रुतम् ।
सलिलनिधिमनेकरत्नाकरप्रीतिसंदोहदं सेतुसीमंतमंतं विलोक्य द्रुतं विलोचनानां निपातं च यस्याशु साफल्यमापादयः ॥
आदिशब्दात्पंचदशभिः रैः समुद्रः षोडशैर्भुजंग इत्येवमादयो यथेष्टकृतनामानो दण्डका भवन्ति । ११७
प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः । ११८
नगणद्वयानंतरं सप्तभिर्यैः प्रचितको नाम दण्डकः स्मृतः । पूर्ववदत्रापि प्रतिचरणविवृद्धरेफक्रमेण यगणादिसमस्तगणवृद्ध्या दण्डका भवन्ति । यथा ।
पूर्वमेकैकाक्षरवृद्ध्या छंदसां वृद्धिरुक्तास्तथा रेफोपलक्षिता त्रयेण वृद्धिः सा चाचार्यपारंपर्योपदेशात् तावद्ग्राह्या यावदेकोनमक्षरसाहस्रं भवन्ति । यद्यपि कैश्चिदुक्तं सहस्राक्षरपर्यन्ता दण्डका इति तथापि तृकाणां वृद्ध्या एकोनमेव सहस्रं भवन्तीति । ११८
॥ इति दण्डकप्रकरणम् ॥
इति सुल्हणविरचितायां सुकविहृदयानंदिन्यभिधानायां वृत्तरत्नाकरछन्दोवृत्तौ समवृत्ताध्यायस्तृतीयः ॥
अथार्धसमवृत्ताध्यायमाह ।
विषमे यदि सौ सलगा दले । भौ युजि भाद्गुरुकावुपचित्रम् । १
अत्र पादे इति वक्तव्ये अर्धसमवृत्ताध्याये त्वर्धापेक्षया अर्ध इत्युक्तं सूत्रकारेणेति न दोषः । विषमे प्रथमे तृतीये पादे त्रयः सगणा लघुर्गुरुर्यदि युजि समे द्वितीये चतुर्थे भगणत्रयं द्वौ गुरू तदा उपचित्रा नामार्धसमवृत्तं भवति । यथा ।
त्वदरातिपुरे क्षिति योद्धसे मुक्तमहोरगकंचुकेवंति (?) ।
उपचित्रमुदीक्ष्य दिवा भयान्नो विविशुर्भवनानि हरिण्यः ॥ १
भत्रयमोजगतं गुरुणी चेद्युजि च नजौ ज्ययुतौ द्रुतमध्या ॥ २
यस्यार्धसमवृत्तस्य ओजे विषमे प्रथमे तृतीये पादे भगणत्रयं द्वौ गुरू यदि युजि समे द्वितीये चतुर्थे नगणजगणौ जगणयगणौ च तद्वृत्तं द्रुतमध्या नाम । यथा ।
दृष्टिविलासविशेषमशेषं विविधगतीरवचोरचनां च ।
यौवनमेव वधू द्रुतमध्यापयति मनोभवदत्तविवेका ॥ २
सयुगात्सगुरू विषमे चेत् । भाविह वेगवती युजि भाद्गौ । ३
विषमे पादे त्रयः सगणा गुरुश्च युजि समे भवणत्रयं द्वौ गुरू च तदा वेगवती नाम । यथा ।
सुकृतैकनिधेः स्मरबन्धोः कस्यचिदालयमालि सलीलम् ।
इयमुन्नतपीननितम्बा गच्छति वेगवती मदनार्ता ॥ ३
ओजे तपरौ जरौ गुरुश्चेत् । म्सौ ज्गौ भद्रविराड्भवेदनोजे । ४
ओजे विषमे पादे प्रथमे तृतीये तगणात्परौ जगणरगणौ गुरुश्चेद्यदि भवति अनोजे समे द्वितीये चतुर्थे पादे मगणसगणजगणा गुरू च भवन्ति तद्वृत्तं भद्रविराट् नाम । यथा।
कुन्देन्दुसमुज्ज्वलेन बद्धं ब्रह्माण्डोदरवर्तिनां नरेन्द्र ।
नीता हरशैलसंध्यमेते शुद्धभद्रविराड् पयसे यशस्ते ॥ ४
असमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाद्गः । ५
असमे विषमे पादे सगणजगणसगणा गुरुश्च समे द्वितीये चतुर्थे भगणरगणनगणा द्वौ गुरू च तद्वृत्तं केतुमती नाम । यथा ।
भवता रणांगणगतेन प्रस्फुरितासिमात्रसचिवेन ।
विजितामराश्वगजयुक्ता केतुमती नरेन्द्र रिपुसेना ॥ ५
आख्यानिकी तौ जगुरू गमोजे जतावनोजे जगुरू गुरुश्चेत् । ६
ओजे प्रथमे तृतीये पादे तगणौ द्वौ जगणो गुरू च अनोजे द्वितीये चतुर्थे जगणतगणौ जगणो द्वौ गुरू च तद्वृत्तं आख्यानिकी नाम । यथा ।
ये ये त्वया संजति शत्रुभूपा हता हताशेषविपक्षवर्ग ।
आख्यानिकी कीर्तिरवन्तिनाथ बभूव ते संचरितांतरिक्षे ॥ ६
जतौ जगौ गो विषमे समे स्यात्तौ ज्गौ गमेषा विपरीतपूर्वा । ७
यस्य प्रथमे तृतीये पादे जगणतगणजगणा द्वौ गुरू च समे पादे द्वौ तगणौ जगणो द्वौ गुरू च तद्वृत्तं विपरीताख्यानिकी नाम । यथा ।
ध्रुवं समागच्छति जीवितेश श्रुत्वादिकारुण्यपरं वचो मे ।
भवेन्न चेद्दैववशादिहान्या आख्यानिकी मे विपरीतपूर्वा ॥
आख्यानिकी वार्ताहारिकोच्यते । एतयोश्च पूर्वोक्तोपजात्यंतर्गतत्वे विशेषसंज्ञार्धसमवृत्ताध्याये पाठः । ७
सयुगात्सलघू विषमे गुरुर्युजि नभौ च भरौ हरिणप्लुता । ८
यस्या विषमे पादे सगणत्रयं लघुगुरू च समे पादे नगणभगणौ भगणरगणौ च तद्वृत्तं हरिणप्लुता नाम । यथा ।
यदि शीघ्रगतिर्हरिणप्लुतान्सुविषमांस्तनुते पथिकः पथि ।
जलदागमने प्रियया तदा भवति संगतिरर्धशरीरया ॥ ८
अयुजि ननरला गुरुः समे न्जमपरवक्त्रमिदं ततो जरौ । ९
विषमे पादे नगणौ रगणो लघुश्च गुरुश्च भवन्ति समे पादे नगणजगणौ जगणरगणौ तद्वृत्तं अपरवक्त्रं नाम । यथा ।
जलदगलपिशंगलोचनं मदनरिपोः शशिखण्डमण्डितम् ।
अपहरतु भयानि दक्षिणं तदपरवक्त्रभयंकरं सताम् ॥
अस्य वैतालीयान्तर्गतत्वेऽपि विशेषसंज्ञार्थ इहोपन्यासः । ९
अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा । १०
यस्य विषमे पादे नगणद्वयं रगणात्परो यगणः समे नगणजगणौ जगणरगणौ गुरुश्च तद्वृत्तं पुष्पिताग्रा नाम ।
चलकिशलयवत्यशोकशाखा तव चरणाहतिमात्रपुष्पिताग्रा ।
शशिमुखि सखि मुञ्च मानमस्या मदनमहोत्सव एष याति शून्या ॥
इयमप्यौपच्छन्दसिकं विशेषसंज्ञाज्ञापकार्थमत्रोच्यते । १०
वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितम् ।
पुष्पिताग्राभिधं केचिदौपच्छंदसिकं तथा ॥ ११
स्यादयुग्मके रजौ रजौ समे तु जरौ जरौ गुरुर्यवात्परा मतीयम् । १२
यस्य विषमे पादे रगणजगणौ रगणजगणौ समे जगणरगणौ जगणरगणौ गुरुश्च तद्वृत्तं यवात्परामतीयं भवतीत्यर्थः । यथा ।
मालवक्षितीश मासमुद्गशालि यवानतारिभूयमेदिनी समग्रा ।
आत्मसात्कृता त्वया रिपून् विजित्य समग्रसैन्यसंयुतानपि प्रसह्य ॥ १२
इति सुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ अर्धसमवृत्ताध्यायः चतुर्थः ।
विषमवृत्ताध्याय आरभ्यते ।
मुखपादोऽष्टभिर्वर्णैः ।
परेऽस्मात् मकरालयैः क्रमाद्वृद्धाः ।
सततं यस्य विचित्रैः पादैः संपन्नसौंदर्यम् ।
तदभिहितममलधीभिः पदचतुरूर्ध्वाभिधं वृत्तम् ॥ १
प्रथमपादोऽष्टाक्षरः । परे च द्वितीयतृतीयचतुर्थाः । अस्मात्प्रथमपादात्मकरालयैश्चतुर्भिश्चतुर्भिरक्षरैः क्रमाद्वृद्धा वर्धिताः । क्रमादिति कोऽर्थः । द्वितीयो द्वादशाक्षरः । तृतीयो षोडशाक्षरः । चतुर्थो विंशत्यक्षर इति क्रमाद्वृद्धिं प्राप्ताः । सततमनवरतं इति विविधैश्चतुर्विंशतिप्रकारप्रस्तारेण विचित्रैः पादैः प्राप्तसौंदर्यं तद्वृत्तं आचार्यैः पदचतुरूर्ध्वं नामोक्तम् । यथा ।
आक्रम्यमाकृष्य धनु-
र्ये त्वया निहिता रणांगणे शरैः ।
रिपवः सहसा गतासवः क्षितिपते श्रुतम् ।
पदचतुरूर्ध्वं न चलन्ति तत्रैव निपतन्ति सशल्याः ॥
अत्र गणपादाभावात् गुरुलघू नेष्यते । अत्र च प्रस्तार्यमाणं चतुर्विंशतिधा भवति । षोडशद्वादशअष्टौ षोडशविंशतिद्वादश अष्टौ इत्यादि । १
प्रथममुदितवृत्ते ।
विरचितविषमचरणभाजि ।
गुरुकयुगलनिधन इह कलित आङा ।
विधृतरुचिरपदविततियतिरिह भवति पीडः ॥ २
प्रथममुदितवृत्ते पदचतुरूर्ध्वे विरचितान् विषमान् अष्टौद्वादशषोडशविंशत्यक्षरान् पदान् भजतीति तस्मिन् विषमचरणभाजि इह छंदसि आङा कलितो युक्तः पीडो भवति । आपीड इत्यर्थः । क्व सति इत्याह । गुरुकयुगलनिधने गुरुद्वयं निधनेऽवसाने यस्य तस्मिन्सति । कीदृशं इत्याह । विधृतरुचिराणां पादानां वितत्या यतिर्विरामो यस्य स तथोक्तः । अन्ते गुरुद्वयोपादनादत्र शेषाणां लघुत्वमस्यानुज्ञानं केदारेणेति मन्यामहे । यथा ।
ध्रुवमिह वनितानां
हृदि विनिहितदयितगुणानाम् ।
प्रसरति मलयमरुति विरहवतीनां
स्मरसुहृदि विजयिनि भवति नियतमसुविनाशः ॥
द्विगुरूणि छंदसि आपीडेति त्रयाणां गुरूणां अप्रवेशाच्छर्गण्ड इति नाम नोक्तम् ।
इदमपि पूर्ववच्चतुर्विंशतिप्रस्तारो भवति । तेभ्यश्चतुर्विंशतिभ्यस्त्रीनवकृष्य समान्यभिधातुमाह । २
प्रथममितरचरणसमुत्थं
श्रयति जगति लक्ष्म ।
**इतरदितरचरणजनितमपि च तुर्यं **
चरणयुगकमविकृतमपरमिह कलिका सा ॥ ३
आपीडस्य प्रथमं तुर्यं चतुर्थं इतरचरणसमुत्थं द्वितीयपादं द्वादशाक्षरोपलक्षितं लक्ष्म श्रयति भजति । कोऽर्थः । प्रथमपदे द्वादशाक्षरः । द्वितीयोऽष्टाक्षरः । अपरमपि चरणयुगलमविकृतमप्रत्ययाभावमित्येवंलक्षणा कलिका नाम । मञ्जरीति वक्तव्ये छंदोभंगभयात् कलिकेत्युक्तमेकार्थत्वान्न दोषः । यथा ।
अधमजनसुहृदि कलिकाले
सुजनकृतविरोधे ।
सकलुषमुषि सपदि विधुवनायाः
तदनु विमनमनसि मुदमिह जनयति निवासा ॥ ३
**द्विगुरुयुतसकलचरणांता **
मुखचरणरचितमनुभवति तृतीय: ।
**चरण इह हि लक्ष्म **
प्रकृतमपरमखिलमपि यदि भवति लवली सा । ४
यस्यास्तृतीयः पादः प्रथमचरणरचितं लक्षणमनुभवति द्वाभ्यां गुरुभ्यां युता सकलचरणानामन्तो यस्याः सा तथोक्ता लवली नाम । अपरं लवल्यां सर्वमपि प्राक्तनं प्रस्तुतं पूर्ववदिति भवति । यथा ।
गगनतलममलमलिमेतत्
सपदि शशभृदयं अनलवितिकरौघैः ।
जनयति च लवल्याः
चलमिति सरसं भुविद्भविपरिणति(?) परिपीडः ॥ ४
**प्रथममधिवसति यदि तुर्यं **
चरमचरणपदमवसितिगुरुयुग्मा ।
**निखिलपरमुपरितनसममिह ललितपादा **
तदियममृतधारा ॥ ५
प्रथमं पादमष्टाक्षरं चरमचरणपदं पश्चिमपादस्थानं यद्यधिवसति । अपरमप्यन्यत्सर्वं उपरितनं पूर्ववत् । अन्ते गुरुद्वययुक्ता सुललितपदपंक्तिरमृतधारा नाम । यथा ।
शशधरमुखि सखि परिरम्भं
तव मम वपुषि मलयजरसनिषेकः ।
श्रवणपुटयुगलसुखकृदतिचतुरमभिहृद्या
वचनममृतधारा ॥
पिंगलनागस्तु पदचतुरूर्ध्वादिषु प्रथमपादविपर्यासे सति मंजर्यादि नामानि वीक्ष्यति । ५
॥ पदचतुरूर्ध्वप्रकरणम् ॥
सजमादिमे सलघुकौ च नसजगुरुकेष्वथोद्गता ।
त्र्यङ्ध्रिगतभनजला गयुता सजसा जगौ चरणमेकत पठेत् ॥ ६
प्रथमपादे सगणजगणसगणा लघुश्च तथा द्वितीयपादे नगणसगणजगणगुरवो भवन्ति त्रिसंख्योपलक्षितोऽङ्ध्रिस्त्रङ्ध्रिस्तृतीयः पादस्तस्मिन् गता भगणनगणजगणलघुगुरवस्तैर्युता । चतुर्थे चरणे सगणजगणसगणा जगणो गुरुश्च यत्र सा उद्गता नाम । एकत इति । प्रथमं द्वितीयेन सहाविलंबितं पठेदित्यर्थः । यथा ।
जितमत्सरा सुकृतिनोऽपि परिहृतकलंकबांधवाः ।
वीक्ष्य सपदि युवतिं विकृतिं नियतं प्रयाति विपुलोद्गतास्तनुः ॥ ६
चरणत्रयं भजति लक्ष्म यदि सकलमुद्गतागतम् ।
र्नौ भगौ भवति सौरभकं चरणे यदीह भवतस्तृतीयके ॥ ७
यद्युद्गतायास्तृतीये पादे रगणनगणभगणगुरवो भवन्ति तदा सौरभकं नाम वृत्तं भवेत् । यथा ।
मलयानिलः प्रियवियुक्तयुवतिजनतावियत्यतः ।
मंदमंदमयमेतितरां घनसारसौरभकमुद्वमन्निव ॥ ७
नयुगं सकारयुगलं च भवति चरणे तृतीयके ।
तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य खलु पूर्वतुल्यकम् ॥ ८
यद्युद्गतायास्तृतीये चरणे द्वौ नगणौ द्वौ सगणौ च भवतः तदा ललितं नाम । शेषमुद्गतावत् । यथा ।
ललितांगहाररमणीयमभिनवललितं समांसलम् ।
इयमतिनयति मुदा प्रमत्ता पुरतो वयस्य तव लास्यमुत्तमम् ॥ ८
॥ उद्गताप्रकरणम् ॥
म्सौ ज्भौ गौ प्रथमाङ्ध्रिरेकतः पृथगन्यत्
त्रितयं सनजरगास्तथा ननौ सः ।
**त्रिनपरिकलितजयौ **
प्रचुपितमितमुदितमुपस्थितपूर्वम् ॥ ९
यस्य प्रथमे पादे मगणसगणजगणभगणा द्वौ गुरू एकतः । पृथक् अन्यत्त्रितयं पादत्रितयं कथमित्यर्थः । द्वितीये पादे सगणनगणजगणरगणा गुरुश्च तथा तृतीये पादे द्वौ नगणौ सगणश्चतुर्थे नगणत्रयं जगणयगणौ च तद्वृत्तं उपस्थितपूर्वं उपस्थितप्रचुपितमित्यर्थः । यथा ।
आरुह्यान्यभृतप्रिया लसत्सहकारं प्रकटीकृतनवमंजरिं सगर्वा ।
निजकलरवनिनदैः प्रकटयति रतिपतिमहोत्सवमालि ॥ ९
नौ पादेऽथ तृतीयके सनौ नसयुक्तौ प्रथमाङ्ध्रिकृतयतिस्तु वर्धमानम् ।
त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरिति गदितं खलु वृत्तम् ॥ १०
तदेव पदचतुरूर्ध्वं तृतीये पादे नगणौ सगणनगणौ च भवतः प्रथमस्य चतुरूर्ध्वस्याङ्धिः प्रथमाङ्ध्रिवत् कृता यतिर्यस्य क्रियाविशेषणस्य तत्प्रथमाङ्ध्रिकृतयतिर्यथा भवति । एवमपरपादत्रयं पूर्वसदृशमिह तन्त्रे तद्वृत्तं आचार्यैर्वर्धमानं नामोक्तम् । यथा ।
पादेन स्वयमुन्नतस्तनीभिरशोकः प्रमदाभिरभिहतः प्रवर्धमानः ।
विकसितकुसुमसमृद्धिमनुभवति बकुलतरुरपि वरयुवतिमुखासवसिक्तः ॥ १०
अस्मिन्नेव तृतीयके पादे तजरा स्युः प्रथमे च विरतिरार्षभं ब्रुवन्ति ।
तच्छुद्धविराट्पुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥ ११
अस्मिन्नेव पदचतुरूर्ध्ववृत्ते तृतीये पादे तगणजगणरगणा भवेयुः, अपरं पादत्रयमपि पूर्वसमं भवति तदा शुद्धविराट्पुरःस्थितं आर्षभं वदन्ति शुद्धविराडार्षभमित्यर्थः। यथा।
बिभ्राणा वदनं शशांकबिंबसमानं कमलायतनयना कृशांगशोभिता ।
पीनोच्चपयोधरद्वया जनयति मुदमधिकतरां वनितेयम् ॥ ११
॥ उपस्थितप्रचुपितप्रकरणम् ॥
विषमाक्षरपादं वा पादैरसमं दशधर्मवत् ।
यच्छंदो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥ १२
विषमाक्षराणि येषु ते पादा यस्मिन् विषमाक्षरपादं यदेवमेव अष्टौ दशसप्तनवाक्षरं वा सर्वपादैरसमं त्रिपादं षट्पादं वा दशधर्मवत् । यथा ।
दश धर्मं न जानन्ति धृतिराष्ट्र निबोध तान् ।
मत्तः प्रमत्त उन्मत्तश्श्रांतः क्रुद्धो बुभुक्षितः ।
त्वरमाणश भीरुश्च लुब्धः कामी च ते दशः ॥ इति षट्पदी गाथा ।
इत्येवमादि अस्मिन् च्छंदस्यर्थे नोक्तं प्रयोगेषु दृश्यते तद्गाथेति विद्वद्भिरुक्तम् । मंगलगीतिकावेष्टकविपद्विध्रुवकचच्चरीपाद्धतिकाद्विपथकप्रभृति तत्सर्वं गाथासंज्ञमवगन्तव्यम् । छंदसामानंत्यात्प्रतिपदमभिधातुमशक्यं तत्सर्वसंग्रहणीयं एका संज्ञा कृतेति । १२
इति सुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ विषमवृत्ताध्यायः पंचमः ॥
प्रस्तारो नष्टमुद्दिष्टमेकद्व्यादिलगुक्रिया ।
संख्या चैवाध्वयोगश्च षडेते प्रत्ययाः स्मृताः ॥ १
इदानीं उक्तानां वृत्तानां षट्प्रत्ययानाह ।
पादे सर्वगुरावाद्याल्लघुं न्यस्य गुरोरधः ।
यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ २
ऊने दद्याद्गुरूण्येवं यावत्सर्वलघुर्भवेत् ।
प्रस्तारोऽयं समाख्यातः छंदोविचितिवेदिभिः ॥ ३
पादे सर्वगुरौ यावतां वर्णानां वृत्तस्य पादस्तावंत एव गुरवो विलिख्यन्ते । यथा । चतुरक्षरच्छंदसि आद्याद्गुरोरधः अधोविभागे लघुं वर्णं न्यस्य स्थापयित्वा तदनंतरं न्यस्तलघोः सकाशात् शेषेभ्यो वर्णेभ्यो अधः किं स्थाप्यत इत्याह । यथोपरि तथा शेषं । यद्युपरि गुरुस्तदा अधस्तादपि गुरुर्यद्युपरि लघुस्तदा अधस्तादपि लघुः शेषम् । उपरि तुल्यो दीयते इत्यर्थः । तेन लघोरनंतरं त्रीणि गुरूणी स्थाप्यन्ते । भूयः पुनरपि कुर्यादमुं विधिमिति । लघुं न्यस्य गुरोरधः यथोपरि तथा शेषमिति पुनरप्यमुं विधिं कुर्यात् । यदा उपरि गुरुर्भवति लघुं न्यस्य गुरोरध इति विधेरभावाद्यः पूर्वदेशादूने दद्याद्गुरूणि इति ऊनप्रदेशो गुरुभिः पूर्यत इत्यर्थः । एवमनेन प्रकारेण तावन्न्यासः कर्तव्यो यावत्सर्वलघुः पदो भवति । प्रस्तार्यते इति प्रस्तारः वर्णानां विन्यासविशेषः । एवं चतुरक्षरपादे षोडशवृत्तानि भवन्ति । छंदांसि विलीयन्ते अस्यामिति छंदोविचितिश्छंदःशास्त्रम् । प्रस्तारो व्याख्यातः । २-३
इदानीं नष्टं व्याख्यातुमाह ।
नष्टस्य यो भवेदंकः तस्यार्धेऽर्धे समे च लः ।
विषमे चैकमाधाय तदर्धेऽर्धे गुरुर्भवेत् ॥ ४
प्रस्तारदर्शितानां वृत्तानां मध्ये यद्वृत्तं नष्टं लुप्तं भवति तस्य नष्टस्य यो भवेदंक एकादिसंख्या तस्य अर्धेऽर्धे समे च अंके सति लो लघुर्भवति । विषमे एकं आधाय प्रक्षिप्य तस्यार्धेऽर्धे गुरुर्भवेत् । यथैतस्मिंश्चतुरक्षरे छंदसि पंचमं वृतं नष्टम् । तस्य अंकः पंच स च अर्धं न प्रयच्छति । सैकः क्रियते तदा षड्भवन्ति । ते अर्धं क्रियन्ते । अर्धितास्त्रयो भवन्ति । तदर्धे गुरुः प्राप्यते पुनस्त्रयोऽर्धं न प्रयच्छन्ति । सैकाश्चत्वारः । तेऽपि अर्धस्तदर्धे पुनर्लब्धो गुरुद्वयोः समत्वात् । तदर्धे लघुः प्राप्यते पुनरेकोऽर्धं न प्रयच्छति । सैकोर्द्व्यः तदर्धे पुनरपि गुरुरेव लभ्यते । इत्थं नष्टस्योदाहरणम् । तथा च । आद्यौ द्वौ गुरू ताभ्यां परको लघुस्ततो गुरुरिति । ऽऽ।ऽ एतच्चतुरक्षरे छंदसि पंचमं वृत्तं भवति । ४
उद्दिष्टं व्याख्यातुमाह ।
उद्दिष्टं द्विगुणानाद्यादुपर्यंकान्समालिखेत् ।
लघुस्था ये तु तत्रांकास्तैः सैकैर्मिश्रितैर्भवेत् ॥ ५
केनचित्तद्वृत्तं प्रस्तार्यकतमत् इति संख्यापरिज्ञाना उक्तं तदुद्दिष्टमुच्यते । पूर्वत्र वृत्तं न ज्ञायते । अतः संख्यया नष्टमुद्ध्रियते । अत्र पुनर्वृत्तं ज्ञायते संख्या न ज्ञायते अतः संख्यापरिज्ञानार्थं उद्दिष्टमिदमुच्यते । तस्य उद्दिष्टवृत्तस्य प्रथमादक्षरादारभ्य उपरि द्विगुणानंकान् समालिखेत् । यथा । अस्मिन्नेव चतुराक्षरे छंदसि एकं वृत्तं उद्दिष्टं तस्य द्वौ वर्णौ गुरू ततो लघुस्ततोऽपि गुरुः । तत्र उद्दिष्टे वृत्ते लघुनि तिष्ठन्तीति लघुस्था ये पुनरंकाश्चत्वारः तैश्चतुर्भिः सैकैः एकेन सहितैः पंचभिरुद्दिष्टं भवेत् । उद्दिष्टसंख्या भवेत् । चतुरक्षरायां जातौ तत्पंचमं वृत्तं भवतीत्यर्थः ॥ ५
एकद्व्यादिलगुक्रियार्थमाह ।
वर्णान् वृत्तभवान् सैकान् औत्तराधर्यतः स्थितान् ।
एकादिक्रमशश्चैतानुपर्युपरि निक्षिपेत् ॥ ६
उपान्त्यतो निवर्तेत त्यजन्नैकैकमूर्ध्वतः ।
उपर्याद्याद्गुरोरेवमेकद्व्यादिलगुक्रिया ॥ ७
यावंत एव वृत्तभवा वर्णा तावत एव सैकान् एकसहितान् यथा । चतुरक्षरजातौ चत्वारो ये वर्णास्तान् सैकान् पंच । औत्तराधर्यतःस्थितान् उपर्युपरिभावेन स्थितान् एकादिक्रमेणैव एतानुपरि उपरि निक्षिपेत् निदध्यात् । उपान्त्यतो अन्त्यसमीपान्निवर्तेत व्याद्युद्येत । त्यजन् परिहरन् एकैकं ऊर्ध्वभागात् । एवमनेन प्रकारेण कस्मादियं एकद्व्यादिलगुक्रियां प्रवर्तत इत्याह । उपर्याद्याद्गुरोरिति उपरिस्थितान् आद्याद्गुरोः । कोऽर्थः । सर्वगुरुवर्णवृत्तसकाशात् इत्यर्थः । आद्यं किल सर्वगुर्वक्षरमेकं वृत्तं परिकल्पते । एतच्च प्रस्तारे दर्शितं यथा ।
**‘पादे सर्वगुरावाद्याल्लघुं न्यस्ये’**ति तेन तस्मात् अध इयं एकद्व्यादिलगुक्रिया प्रवर्तते । तत्र पंचसु वर्णेषु उत्तराधरभावेन स्थापितेषु अधःस्थित एकस्तदुपरिस्थे निक्षिप्यते । स च तथैव तिष्ठति त्यजन्नेकैकमूर्ध्वत इति वीप्सवशादेकदैव स्थितिमंतरेण निक्षिप्तत्वात् पुनर्निक्षेपभावादेकैकत्यागश्च न संभवति तस्मात्स्वरूपेण स्थित एव उपरि क्षिप्यते । ततो द्वितीये स्थाने द्वौ वर्णौ भवतः तौ तृतीयेन क्षिप्येत तत्र त्रयो भवन्ति । तच्च चतुर्थे निक्षिप्यन्ते ते चत्वारो भवन्ति । ‘उपान्त्यतो निवर्तते त्यजन्नेकैकमूर्ध्वतः’ उपरितनमेकं त्यज्यते तत्र न क्षिप्यते इत्यर्थः । वीप्सा त एव अधोभागात् पुनर्निक्षेपे क्रिया प्रवर्तते तेन अधःस्थित एव एको द्वितीये स्थाने निक्षिप्यते तत्र च त्रयो भवन्ति । तच्च तृतीये निक्षिप्यन्ते तत्र षट्भवन्ति उपरि एकं त्यजन्निवर्तेत । आद्यं एकं वृत्तं सर्वगुरुः तस्माद्देकद्व्यादिलगुक्रिया प्रवर्तेते । तत एकः सर्वगुरुः चत्वारि द्विलघूनि षट्त्रिलघूनि चत्वारि चतुर्लघूनि एकं सर्वलघुः एषा लगुक्रिया सर्वलघुप्रस्तारेण प्रतीयते अस्यास्तु एष एव क्रमः पंचाक्षरादिवृत्तेष्वपि । ६-७
[ उदाहरणम् –
१
४१
६३१
४३२१
१११११
]
संख्यार्थमाह ।
[लगुक्रियाङ्कसन्दोहः भवेत्संख्याविमिश्रिते ।
उद्दिष्टाङ्कसमाहारः सैको वा जनयेदिमाम् ॥ ८ ]
लगुक्रियायां ये अंकास्तेषां सन्दोहस्तस्मिन्विमिश्रिते पीडीकृते संख्या भवेत् । इयं तावद्धारणं स्यात् । तथा एकश्चत्वारः षट्चत्वारः एकमेषामेकीकृता वै षोडश भवन्ति चतुरक्षरजातौ प्रस्तार्यमाणायां षोडश वृत्तानि भवन्तीत्यर्थः । स च प्रस्तारः पूर्वमेव व्याख्यातः ।
पक्षान्तरमाह ।
उद्दिष्टस्य वृत्तस्य उपरि ये अंका द्विगुणास्तेषां समाहारः एकीभावः सैको वा अथवा जनयेदुत्पादयेदिमां संख्याम् । यथा । चतुरक्षरजातौ द्विगुणा ये अंका उपर्यारोपितास्तेषां समाहारः पंचदश सैकः षोडशेति । ८
अध्वार्थमाह ।
संख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ।
वृत्तस्यांगुलिकीं व्याप्तिमधः कुर्यात्तथांगुलम् ॥ ९
चतुरक्षरजातौ या षोडशसंख्या स्याद्द्विगुणा द्वात्रिंशतिः एकोना एकरहिता एकत्रिंशतिः सद्भिः पण्डितैरध्वा मार्गः प्रकीर्तितः । कथम् । वृत्तस्य आंगुलिकीं अंगुलप्रमाणां व्याप्तिं कुर्यात् । ९
अधुना पुनरपि कविरन्वयपूर्वकं पित्रा सह सात्मानं निर्द्दिशति ।
वंशेऽभूत्कश्यपस्य प्रकटगुणगणः शैवसिद्धान्तवेत्ता ।
विप्रः पव्येकनामा विमलतरमतिः शैवतत्वावबोधे ॥ १०
केदारस्तस्य सूनः शिवचरणयुगाराधनैकाग्रचित्तः ।
छंदस्तेनाभिरामं प्रविरचितमिदं वृत्तरत्नाकराख्याम् ॥ ११
वंशेऽन्वयेऽभूज्जातः कश्यपस्य कश्यं सोमं पिबतीति कश्यपः कश्यपशब्देन यद्यपि सुरा एवाभिधीयते कथ्यते । तथाप्यत्र सोममुच्यते सुरापानस्य ब्राह्मणे दिजे निषिद्धत्वात् अन्वयार्थेन वंशार्थेन क्रनुयायित्वमुक्तं स्यात् (?) । शिवस्य एते शैवा ये सिद्धान्तास्तेषां वेत्ता । ‘विद-विचारणे’ इत्येतस्य रूपं न पुनः ‘विद-ज्ञाने’ । तस्याशक्यत्वात् । यो हि विचारयति चिन्तयति सो अवश्यं वेत्ति नह्यविदितं विचारयितुं शक्नोति विशेषेण प्रतिपूरयति स्वर्गापवर्गादिकानि स विप्रः विमलतरमतिः विमला विस्तीर्णा तरला मनोहरा मतिर्यस्य अतिशयेन विमलमतिः । क्व । शैवशास्त्रावबोधे । केदारनामा तस्य पुत्रः शिवः शान्तो देवताविशेषः तस्याराधनं तत्र एकाग्रं तन्निष्ठं चित्तं यस्य सः । तथा तेन केदारेणाभिरामं रमणीयं मनोहरं छंदः प्रकर्षेण विरचितं वृत्तरत्नाकराख्याम् ॥ १०-११
इति पंडितश्रीसुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां छंदोवृत्तौ षट्प्रत्ययाध्यायः षष्ठः समाप्तः ॥
श्रीः ।
शुभं भूयाल्लेखकस्य ।
वसुयुग्मे ....... शुक्लश्च पंचम्यां हंसराजेन मुनिनाऽलिखट्टीका मनोरमा ॥